________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९८ परिशिष्टो
[ मनुष्यादिः(४५) करतलरेखे। करस्याधः प्रपाणिः स्यादूर्व करतलं स्मृतम् । रेखा सामुद्रिके ज्ञेया शुभाशुभनिवेदिका ॥ ३५॥
(४६) स्तनः। स्तनोरसिजवक्षोजपयोधरकुचास्तथा ।
(४७) स्तनाग्रम्। स्तनाग्रं चूचुकं वृत्तं शिखा स्तनमुखं च तत् ॥ ३६ ॥
(४८) वक्षः। वक्षो वत्समुरः क्रोडो हृदयं हनुजान्तरम् ।
(४९) कुक्षिः । कुक्षिः पिचण्डो जठरं तुन्दं स्यादुदरं च तत् ॥ ३७ ॥
(५०) मर्मत्रिके। जीवस्थानं तु मर्म स्यात्कटिपान्ते त्रिकं स्मृतम् ।
(५१) नाभ्यादीनि । नाभिः स्यादुदरावर्तस्ततोऽधो बस्तिरुच्यते ॥ ३८ ॥ बस्तिश्च वातशीर्ष स्यागर्भस्थानं च तत्स्त्रियाः । गर्भाशयो जरायुश्च गर्भाधारश्च स स्मृतः ॥३९॥
(५२) आमाशयः। नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः ॥ ४० ॥
(५३ ) पक्वाशयमूत्राशयौ। पकाशयो ह्यधो नाभेर्वस्तिमूत्राशयः स्मृतः।
(५४) कट्यादीनि । कटिः ककुद्मती श्रोणी नितम्बश्च कटीरकम् । आरोहं श्रोणिफलकं कलत्रं रसनापदम् । नितम्बश्वरमं श्रोणेः स्त्रीणां जघनमग्रतः ॥ ४१ ॥
(५५) ककुन्दरादीनि ।। ककुन्दरौ तु सर्वेषां स्यातां जघनकूपको । कटिमोथौ स्फिचौ पायुर्गुदापानं तदासनम् ॥ ४२ ॥
१ झ. द. नं तु दा।
For Private and Personal Use Only