________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८ अष्टादशो वर्गः ]
राजनिघण्टुः ।
(३५) अवटः ।
अवस्तु शिरःपश्चात्संधिर्घाटा कृकाटिका । ( ३६ ) ग्रीवा ।
ग्रीवा च कन्धरा कन्धिः शिरोधिश्व शिरोधरा ॥ २७ ॥ ( ३७ ) कण्ठादीनि ।
कण्ठो गलो निगालोऽथ घण्टिका गलेशुण्डिका । ( ३८ ) शिरादीनि ।
धमनी तु शिरांऽसे तु स्कन्धोऽधः शिखरं तथा । तस्य संधिस्तु जत्रु स्यात्कक्षा दोर्मूलसंज्ञका ।। २८ ॥
( ३९ ) पार्श्वपृष्ठे । तदधस्ताद्भवेत्पार्श्वं पृष्ठं पश्चात्तनोः स्मृतम् । (४०) बाहुः । दोर्दोषा च प्रवेश्च बाहुर्बाहा भुजो भुजा ।। २९ ।।
(४१) हस्तः ।
Acharya Shri Kailassagarsuri Gyanmandir
३९७
पाणिस्तु पञ्चशाखः स्यात्करो हस्तः शयस्तथा ॥ ३० ॥ (४२) हस्तमूलादीनि ।
करमूले मणिबन्धो भुजमध्ये कूर्परः कफोणिश्च । तस्मादधः प्रकोष्ठः प्रगण्डकः कूर्परांसमध्यं स्यात् ॥ ३१ ॥
( ४३ ) अङ्गुल्यादीनि ।
अङ्गुल्यः करशाखाः स्युः प्रदेशिन्यां तु तर्जनी । परुः स्यादङ्गुलीसंधिः पर्वसंधिश्व कथ्यते ॥ ३२ ॥ अथाप्रदेशिन्यौ मध्यमाऽनामिका तथा । कनिष्ठा चेति पञ्च स्युः क्रमेणाङ्गुलयः स्मृताः ॥ ३३ ॥
For Private and Personal Use Only
(४४) नखम् ।
कामाङ्कुशाः कररुहाः करजा नखरा नखाः । पाणिजाङ्गुलिसंभूताः पुनर्भवपुनर्नवाः ।। ३४ ।।
१ ज लगुण्डिका । २ झ. ट. शुण्ठिका ।