________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो- [मांसादिः सप्तदशो वर्गः]
(८) खगगवयमांसगुणाः। मांसं खड्गमृगोत्थं तु बलकृबृंहणं गुरु । गवयस्याऽऽमिपं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ १३ ॥
(९) रुरुमांसम् । गुणाः-रुरुक्रव्यं गुरु स्निग्धं मन्देवह्निवलप्रदम् ।
(१०) सारङ्गमांसम् । गुणाः-सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् ।
(११)शिखरीमांसम्। गुणाः-शिखरीसंभवं मांसं लघु हृद्यं बलपदम् ।
(१२)शरशृङ्गमांसम् । गुणाः-शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफपदम् । वल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ १४ ॥
(१३) शल्यमांसम् । गुणाः-शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ।
(१४) शशमांसम् । गुणाः-शामांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ।
(१५) बिलेशयानां मांसम् । गुणाः-अन्ये विलेशया ये स्युः कोकडोन्दुरुकादयः। गर्हितं तस्य मांस च मान्यं गौरवदुर्जरम् ॥ १५ ॥
(१६) हारीतमांसम् । गुणाः-हारीतपललं स्वादु कफपित्तास्रदोषजित् ।
(१७) जलपक्षिमांसम् । गुणाः-स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् । तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ १६ ॥ अन्ये वकवलाकाद्या गुरवो मांसभक्षणात् । अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ १७ ॥
१ज. न्दवीर्यब।
For Private and Personal Use Only