________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७ सप्तदशो वर्गः] राजनिघण्टुः ।
३९१ . (३) अनूपादिदेशमांसम्। तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखरायुद्भवं जागलीयम् । पुष्टिं दीप्तिं च दत्ते रुचिकृदय लघु स्वादु साधारणीयं दृष्यं वल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणाम् ॥ ३ ॥
(४) सारसादिमांसम् । मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोपापहम् । पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात्परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशम् ॥ ४ ॥
अथ स्थानविशेषेण मांसगुणाः
(५) द्रुतादिमांसगुणाः। द्रुतो विलम्बितश्चैव प्लवश्चेति गतेस्त्रयः । स्थानतोऽपि त्रयस्ते तु बिलस्थलजलाश्रयाः ॥५॥ पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति । स्वभावतस्त्रयः मोक्ताः क्रमशो मृगपक्षिणः ॥ ६ ॥ अथैषां क्रमशो लक्ष्मगुणान्वक्ष्यामि वर्गशः । एवं नवविधाः प्रोक्तास्त एव मृगपक्षिणः ॥७॥
द्रुतमांसम्-अंजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते । तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥ ८॥
विलम्बितमांसगुणाः—गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते । वलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात्॥९॥ सारसहंसबलाकाश्चक्रक्रौञ्चादयो जले प्लवनात् । प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥१०॥
(६) जलेशयमांसगुणाः। झपमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः । मांसं तेषां तु सरं वृष्यं गुरु शिशिरवलसमीरकरम् ॥ ११ ॥
(७) पक्षिमृगमांसगुणाः। यत्र स्थिता ये गतितोऽपि देशादन्यत्र याता मृगपक्षिमुख्याः । स्वस्वोचि. तस्थाननिवतेनेन मांसेऽपि तेषां गुणपयेयाः स्युः ॥१२॥
१ ज. ट. 'सं गुरुवयसिरुरुको । २ झ. ढ. अथ शौं ।
For Private and Personal Use Only