SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टो [ मांसादिःजीर्णधान्यगुणाः-पुराणा विरसा रूक्षास्त्वहिता दुर्जरावलाः ॥ १९ ॥ धान्यविशेषगुणाः-धान्यं वापितमुत्तमं तदखिलं छिन्नोद्भवं मध्यमं ज्ञेयं यद्यदवापितं तदधमं निःसारदोपप्रदम् । दग्धायां भुवि यत्नतोऽपि विपिने ये वापिताः शालयो ये च च्छिन्नभवा भवन्ति खलु ते विण्मूत्रवन्धप्रदाः॥२०॥ क्षारोदकधान्यगुणाः-क्षारोदकसमुत्पन्न धान्यं श्लेष्मरुजापहम् । मृत्तिकोद्भूतधान्यगुणाः-सुस्निग्धमृत्तिकोद्भूतं धान्यमोजोबलावहम् ॥ २१ ॥ वालुकामृत्तिकोद्तधान्यगुणाः-चलपुष्टिप्रभावघ्नं वालुकामृत्तिकोद्भवम् । उक्तं च-धान्यं श्रेष्ठं पष्टिकं राजभोग्यं मांसं त्वाजं तैत्तिरं लावकीयम् । पानीयं स्यात्कृष्णमृत्स्नासमुत्थं क्षीराज्यादौ गव्यमा प्रशस्तम् ॥.२२ ॥ इत्थंप्रसिद्धतरधान्यगुणाभिधानवीर्याभिवर्णनविशृङ्खलवाग्विलासम् ।आनायवर्गमिममाशु लभेत वैद्यो विद्यां विषण्णजनजीवनदानधान्यम् ॥ २३ ॥ यानि सदा भुज्यन्ते भुञ्जानजनाश्च यानि भुञ्जन्ते । तेषां खलु धान्यानां वर्गोऽयं भोज्यवर्ग इति कथितः ॥ २४ ॥ येनाऽऽचारचणेन मुग्धमधुरश्रीशालिना सन्महामानार्हा बहुधान्यसंपदुचिता संनीयते संततम् । तेन श्रीहरीश्वरेण रचिते नामोक्तिचूडामणौ वर्गोऽयं स्थितिमति नूत्नरचनो धान्यायः षोडशः ॥२५॥ इति श्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचूडामणौ भोज्यवर्गापरनामा पोडशो धान्यवर्गः ॥ १६ ॥ अथ मांसादिः सप्तदशो वर्गः । (१) याज्यमांसम् । वालस्य वृद्धस्य कृशस्य रोगिणो विषामिदग्धस्य मृतस्य चाम्बुपु । त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं . ॥ १॥ ___ (२) साधारणमांसगुणाः। सर्व मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तत्समासात् । देशस्थानाचाऽऽत्मसंस्थं च सर्व भू(नस्वात्म्यसंस्थास्वभावैर्भु)यो नानारूपतां याति नूनम् ॥ २॥ १ ट. तं मृत'। २ ज. च । ३ ज. 'स्य सदाविशु। ४ ज. तथा। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy