________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६ पोडशो वर्गः] राजनिघण्टुः ।
३८९ गुणाः-पृथुकाः स्वादवः स्निग्धा हया मैदनवर्धनाः ॥ ११ ॥
(७) पुपालादि। गुणाः-पुपाला मधुराः प्रोक्ता वृष्यास्ते बलदाः स्मृताः । पित्तहत्तर्पणा हृद्याः स्निग्धास्ते वलवर्धनाः ॥ १२ ॥ दुग्धबीजा सुमधुरा दुर्जरा वीर्यपुष्टिदा । ये चान्ये यावनालाद्याश्चिपिटास्तप्ततण्डुलाः ॥१३॥ अतप्ततण्डुलास्ते तु दुग्धवीजाः प्रकीर्तिताः।
गुणाः-शालेययावनालीयचिपिटाः पुष्टिवर्धनाः । दुग्धवीजाः सुमधुरा दुर्जरा वीर्यपुष्टिदाः ॥ १४ ॥ तप्ताश्चणाः कफहराः परमोलकास्ते सद्यस्तृषातिरुचिपित्तकृतश्च जग्धाः । वाताल्पदाः सुखकरा ह्यबलाश्च रूक्षा हृया भवन्ति युवजजेरवालकानाम् ॥ १२ ॥ मुद्गगोधूमचणका यावनालादयः स्मृताः। गुणाः-यदर्धपकं तद्धान्यं विष्टम्भाध्मानदोपकृत् ॥ १६ ॥
(८)कर्णिका। शुष्कगोधूमचूर्ण तु कर्णिका समुदाहृता।
(९) दालिः । स्फोटस्तु चणकादीनां दालीति परिकीर्तिता ।
(१०) हरितलूनम् । पकं हरितलूनं च धान्यं सर्वगुणावहम् ।
(११) शुष्कलूनम् । शुष्कलूनं तु निःसारं रूक्षं तत्सत्त्वनाशनम् ।
(१२) कोशानम् । कोशधान्यं नवं बल्यं मधुरं वत्सरोषितम् । गुणाः-निर्दोष लघु पथ्यं च तद्वर्षादचरं भवेत् ॥ १७ ॥
(१३) नवधान्यम् । नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् । गुणाः-व्यब्दोषितं लघु पथ्यं त्रिवर्षादवलं भवेत् ॥ १८ ॥ चणास्तु यवगोधूमतिलमाषा नवा हिताः।
१ज. दुर्जराः। २ ज. मान्द्यविवर्धनाः । ३ झ. ट. "प्तास्तु मुद्गचणकाः सुमनादिलङ्का स । ४ झ. ढ. दग्धाः । ५ ज. तत्क्षतना।
For Private and Personal Use Only