SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८८ [ शाल्यादिः परिशिष्टोअथ शाल्यादिः षोडशो वर्गः (१) धान्यम्। थान्यं भोग्यं च भोगाईमन्नाद्यं जीवसाधनम् । तच्च तावत्रिधा ज्ञेयं शूकशिम्बीतृणाह्वयम् ॥ १॥ व्रीह्यादिकं यदिह शूकसमन्वितं स्यात्तच्छूकधान्यमथ मुद्रमकुष्टकादि । शिम्बी निगूढमिति तत्प्रवदन्ति शिम्बीधान्यं तृणोद्भवतया तृणधान्यमन्यत् ॥२॥ गुणाः—वातादिदोपशमनं लघु शूकधान्यं तेजोवलातिशयवीर्यविवृद्धिदायि । शिम्बीभवं गुरु हिमं च विवन्धदायि वातूलकं तु शिशिरं तृणधान्यमाहुः ॥३॥ देशे देशे शुकधान्येषु संख्या ज्ञातुं शक्या नैव तदैवतैर्वा । तस्मादेषां येषु भोगोपयोगास्तान्यस्माभिर्व्याक्रियन्ते कियन्ति ॥ ४ ॥ (२) पललम् । पललं तिलकल्कं स्यात्तिलचूर्ण च पिष्टकम् । गुणाः-पललं मधुरं रुच्यं पित्तास्रवलपुष्टिदम् ॥ ५ ॥ (३) तैलकिट्टम् । तैलकिटं तु पिण्याकः खलः स्यात्तैलकल्कजः । गुणाः--पिण्याकः कटुको गौल्यः कफवातप्रमेहनुत् ॥६॥ (४) शिम्बीधान्यम् । धान्यानां कञ्चुके शिम्बी बीजगुप्तिश्च सा भवेत् । तगुप्तानि च धान्यानि शिम्बीधान्यानि चक्षते ॥ ७॥ (५) लाजा। ये के च बीहयो भृष्टास्ते लाजा इति कीर्तिताः । यवादयश्च ये भृष्टा धानास्ते परिकीर्तिताः ॥ ८॥ गुणाः-~लाजा च यवधाना च तर्पणी पित्तनाशिनी । गोधूमयावनालोत्थाः किंचिदुष्णाश्च दीपनाः ॥९॥ केदारपकैर्गोधूमैराकुलाः परिकीर्तिताः। आकुला गुरवो वृष्या मधुरा बलकारिणः ॥ १०॥ (६) पृथुकाः। बीहयोऽप्यर्धपकाश्च तप्तास्ते पृथुकाः स्मृताः। १ ज. ट. व तैर्दैव । २ झ. द. नाः ॥९॥ रसैर। ट. 'नाः ॥९॥ तप्तर' । ३ ज. ट. स्वादवो। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy