________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८७
१५ पञ्चदशो वर्गः] राजनिघण्टुः।
(२१) राजिकातैलम्। गुणाः-तीक्ष्णं तु राजिकातैलं ज्ञेयं वातादिदोषनुत् । शिशिरं कटु पुंस्त्वप्नं केश्यं त्वग्दोषनाशनम् ॥ २१॥
(२२) चिञ्चातैलम् । गुणाः—यवचिश्चाभवं तैलं कटु पाके विलेखनम् । कफवातहरं रुच्य कषायं नातिशीतलम् ॥ २२ ॥
(२३) कर्पूरतैलम् । ___गुणाः-कर्पूरतैलहिमतैलशितांशुतैलशीताभ्रतैलतुहिनांशुसुधांशुतैलम् । कर्पूरतैल(लं)कटुकोणकफामहारि वातामयन्नरददाय॑दपित्तहारि ॥ २३ ॥
(२४) त्रपुसादितैलम् । गुणाः—त्रपुसैर्वारुकचारककूष्माण्डप्रभृतिवीजजं च यत्तैलम् । तन्मधुरं गुरु शिशिरं केश्यं कफपित्तनाशि कान्तिकरम् ॥ २४ ॥
तैलसेवने योग्यायोग्यविचारः-तैलं न सेवयेद्धीमान्यस्य कस्य च यद्भवेत् । विषसाम्यगुणत्वाच्च योगे तन्न प्रयोजयेत् ॥ २५ ॥ ___उक्तं च--विषस्य तैलस्य न किंचिदन्तरं मृतस्य सुप्तस्य न किंचिदन्तरम् । तृणस्य दासस्य न किंचिदन्तरं मूर्खस्य काष्ठस्य न किंचिदन्तरम् ॥ २६ ॥
इत्थं गवादिकपयःप्रभृतिप्रपञ्चप्रस्ताववर्णिततिलादिकतैलजातम् । वर्ग निसर्गललितोज्ज्वलशब्दसर्ग बुद्ध्वा भिषक्पतिरशङ्कतया भिषज्येत् ॥ २७ ॥ पातारमात्मनः किल यान्ति प्रत्युपचिकीर्षया यानि । तेषामेव निवासः परिकथितः पेयवर्ग इति कृतिभिः ॥ २८ ॥ पायं पायं मधुरविमलां शीतला यस्य कीर्ति स्रोतोधारां जहति सुजना दुर्जनासदिौस्थ्यम् । वर्गस्तस्य व्रजति नृहरेर्नामनिर्माणनाम्नश्चूडारत्ने खलु तिथिमितः क्षीरकादिः समाप्तिम् ।। २९ ॥
इति श्रीनिघण्टुराजे पञ्चदशः क्षीरादिवर्गः ॥ १५ ॥
१ ज. दोषघ्नं । २ झ. ट. द. "चिञ्चीभ । ३ ज.ट. गे प्रोक्तं न वर्जये। ४ ज.ट. "ङ्गदोपान् । ।
For Private and Personal Use Only