SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८६ परिशिष्टो [क्षीरादिः(१३) जीर्णनवनीतम्। गुणाः-एकाहाद्युपितं प्रोक्तमुत्तरोत्तरगन्धिदम् । अहृद्यं सर्वरोगाढ्यं दधिजं तद्भुतं स्मृतम् ॥ १३ ॥ इत्येकादशनवनीतप्रकरणम् । (१४) तैलम्। तैलं यत्तिलसर्षपोदितकुसुम्भोत्थातसीधान्यजं यच्चैरण्डकरञ्जकेङ्गुदिफलैनिम्बाक्षनिर्गुण्डकैः । ज्योतिष्मत्यभयोद्भवं मधुरिकाकोशाम्रचिश्चाभवं कर्पूरत्रपुसादिजं च सकलं सिद्ध्यै क्रमात्कथ्यते ॥ १४ ॥ (१५) धान्यजतैलम् । गुणाः-गोधूमयावनालव्रीहियवाद्यखिलधान्यजं तैलम् । वातकफपित्तशमनं कण्डूकुष्ठादिहारि चक्षुष्यम् ॥ १५ ॥ (१६) करञ्जतैलम् । गुणाः-करञ्जतैलं नयनातिनाशनं वातामयध्वंसनमुष्णतीक्ष्णकम् । कुष्ठातिकण्डूतिविचिकापहं लेपेन नानाविधचर्मदोपनुत् ॥ १६ ॥ (१७) इड्डदीतैलम् । गुणाः-स्निग्धं स्यादिगुदीतैलं मधुरं पित्तनाशनम् । शीतलं कान्तिदं बल्यं श्लेष्मलं केशवर्धनम् ॥ १७ ॥ ( १८ ) शिशुतैलम् । गुणाः-शिग्रुतैलं कटूष्णं च वातजित्कफनाशनम् । त्वग्दोपत्रणकण्डूतिशोफहारि च पिच्छलम् ॥ १८ ॥ ( १९) ज्योतिष्मतीतैलम् । गुणाः -- कटु ज्योतिष्मतीतैलं तिक्तोष्णं वातनाशनम् । पित्तसंतापनं मेधाप्रज्ञाबुद्धिविवर्धनम् ॥ १९ ॥ (२०) हरीतकीतैलम् । गुणाः --- शीतं हरीतकीतैलं कषायं मधुरं कटु । सर्वव्याधिहरं पथ्यं नानात्वग्दोपनाशनम् ॥ २०॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy