________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ पञ्चदशो वर्गः ] राजनिघण्टुः।
३८५ (४) लध्वजानवनीतम्। गुणाः-लबजाजं तु मधुरं कषायं च त्रिदोषनुत् । चक्षुष्यं दीपनं बल्यं नवनीतं हितं सदा ॥४॥
(५)छागनवनीतम्। गुणाः-नवनीतं नवोत्थं तु च्छागजं क्षयकासजित् । बल्यं नेत्रामयनं च कफघ्नं दीपनं परम् ॥ ५॥
(६) आविकनवनीतम्। गुणाः-आविकं नवनीतं तु विपाके तु हिमं लघु । योनिशूले कफे वाते दुर्नानि च हितं सदा ॥६॥
(७) एडकनवनीतम्। गुणाः-ऐडकं नवनीतं तु कपायं शीतलं लघु । मेधाहद्गुरु पुष्टयं च स्थौल्यं मन्दाग्निदीपनम् ॥ ७ ॥
(८) हस्तिनीनवनीतम्।। गुणाः-हस्तिनीनवनीतं तु कषायं शीतलं लघु । तिक्तं विष्टम्भि जन्तुम्नं हन्ति जन्तुकफकमीन् ॥ ८॥
(९) अश्वीयनवनीतम् ।। अश्वीयं नवनीतं स्यात्कषायं कफवातजित् । चक्षुष्यं कटुकं चोष्णमीषद्वातापहारकम् ॥९॥
(१०) गर्दभीनवनीतम्।। गुणाः-गर्दभीनवनीतं तु कपायं कफवातनुत् । वल्यं दीपनदं पाके लघूष्णं मूत्रदोषनुत् ॥ १० ॥
(११) उष्ट्रीनवनीतम् । गुणाः-औष्ट्रं तु नवनीतं स्याद्विपाके लघु शीतलम् । व्रणकृमिकफास्रनं वातघ्नं विषनाशनम् ॥ ११ ॥
(१२) नारीनवनीतम् । गुणाः-नवनीतं तु नारीणां रुच्यं पाके लघु स्मृतम् । चक्षुष्यं सर्वरोगघ्नं दीपनं विपनाशनम् ॥ १२ ॥
For Private and Personal Use Only