________________
Shri Mahavir Jain Aradhana Kendra
१४ चतुर्दशी वर्गः ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजनिघण्टुः ।
( ९ ) * वेत्रवती ।
गुणाः -- तत्रान्या दधते जलं सुमधुरं कान्तिप्रदं पुष्टिदं दृष्यं दीपनपाचनं बकरं वेत्रावती तापिनी ॥ १० ॥
३८३
(१०) पयोष्णी ।
गुणाः – पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम् । सर्वामयहरं सौख्यं कान्तिदं लघु ॥ ११ ॥
( ११ ) वितस्ता |
गुणाः - वितस्तासलिलं स्वादु त्रिदोषशमनं लघु । प्रज्ञाबुद्धिमदं पथ्यं तापजाड्यहरं परम् ।। १२ ॥
(१२) *सरयूः ।
गुणाः -- सरयूसलिलं स्वादु बलपुष्टिप्रदायकम् । (१३) गोदावरी |
गोदावरी गौतमसंभवा सा ब्रह्माद्रिजाताऽप्यथ गौतमी च । गुणाः - पित्तार्तिरक्तार्तिसमीरहारि पथ्यं परं दीपनपापहारि ॥ १३ ॥ कुष्ठादिदुष्टामयदोषहारि गोदावरीवारि तृषानिवारि ।
(१४) * कृष्णा (कृष्णगङ्गा )
कृष्णानदी कृष्णसमुद्भवा स्यात्सा कृष्णवेणाऽपि च कृष्णगङ्गा । गुणाः काण जायकरं स्वादु पूतं पित्तास्रकोपनम् । कृष्णवेणाजलं स्वच्छं रुच्यं दीपनपाचनम् ॥ १४ ॥
(१५) भीमरथीमलापहाघट्टगाः ।
गुणाः - मलापहा भीमरथी च घट्टगा यथा च कृष्णाजलसाम्यदा गुणैः । मलापहाघट्टगयोस्तथाऽपि पथ्यं लघु स्वादुतरं सुकान्तिदम् ।। १५ ।।
(१६) तुङ्गभद्रा ।
गुणाः — तुङ्गभद्राजलं स्निग्धं निर्मलं स्वाददं गुरु । कण्डुपित्तास्रदं प्रायः सात्म्ये पथ्यकरं परम् ।। १६ ।।
For Private and Personal Use Only
* इयमुत्तरे प्रसिद्धा । + इयं विन्ध्याचलदक्षिणे प्रसिद्धा । + वितस्ता काश्मीरे प्रसिद्धा ।
* उत्तरे प्रसिद्धा । विन्ध्यदक्षिणे प्रसिद्धा । + विन्ध्यदक्षिणे प्रसिद्धा ।
t