SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२ परिशिष्टो [ पानीयादिःद्रसुभगा भागीरथी स्वर्णदी । त्रिःस्रोता सुरदीर्घिका सुरनदी सिद्धापगा स्वधुनी ज्येष्ठा जनुसुता च भीष्मजननी शुभ्रा च शैलेन्द्रजा ॥१॥ ___गुणाः-शीतं स्वादु स्वच्छमत्यन्तरुच्यं पथ्यं पाक्यं पावनं पापहारि । तृष्णामोहध्वंसनं दीपनं च प्रज्ञा दत्ते वारि भागीरथीयम् ॥ २॥ (२) यमुना। यमुना तपनतनूजा कलिन्दकन्या यमस्वसा च कालिन्दी । गुणाः-पित्तदाहवमनश्रमापहं स्वादु वातजननं च पाचनम् । वह्निदीपनकरं विरोचनं यामुनं जलमिदं बलप्रदम् ॥ ३ ॥ (३) नर्मदा। रेवा मेकलकन्या सोमसुता नर्मदा च विज्ञेया ॥ ४ ॥ गुणाः-सलिलं लघु शीतलं सुपथ्यं कुरुते पित्तकफप्रकोपनम् । सकलामयमर्दनं च रुच्यं मधुरं मेकलकन्यकासमुत्थम् ॥ ५ ॥ (४) सरस्वती। सरस्वती प्लक्षसमुद्भवा च सा वाक्पदा ब्रह्मसती च भारती । वेदाग्रणीचैव पयोष्णिजाता वाणी विशाला कुटिला दशाहा ॥६॥ गुणाः-सरस्वतीजलं स्वादु पूतं सर्वरुजापहम् । रुच्यं दीपनदं पथ्यं देहकान्तिकरं लघु ॥ ७॥ (५) चन्द्रभागा। गुणाः—चान्द्रभागसलिलं सुशीतलं दाहपित्तशमनं च वातदम् । (६) मधुमती । गुणाः-चन्द्रभागगुणसाम्यदं जलं किंच माधुमतमग्निदीपनम् ॥ ८ ॥ (७) शतवादिनदीजलानां गुणाः। गुणाः-शुतुर्विपाशायुजः सिन्धुनद्याः सुशीतं लघु स्वादु सर्वामयघम् । जलं निर्मलं दीपनं पाचनं च प्रदत्ते बलं बुद्धिमेधायुजं च ॥ ९ ॥ (८) 'शोणजलगुणाः ( बर्बरनदी ) गुणाः-शोणे बर्बरके जलं तु रुचिदं संतापशोपापहं पथ्यं वहिकरं तथा च बलदं क्षीणागपुष्टिपदम् । *काश्मीरे प्रसिद्धा(?) । शोणनदी विन्ध्योत्तरे प्रसिद्धा । १ज. ट रं च रो। २ ज. ट, धर्घरके। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy