________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १४ चतुर्दशो वर्गः ]
राजनिघण्टुः ।
३८१
गुणाः - चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् । शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥ ६४ ॥
इन्दुकान्तलक्षणम् — स्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन्मुनीनाम् । यच्च स्रावं याति चन्द्रांशुसङ्गाज्जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ||६५ || (२१) पेरोजम् ।
पेरोजं हरिताश्मं च भस्माङ्ग हरितं द्विधा ॥
गुणाः - पेरोजं सुकषायं स्यान्मधुरं दीपनं परम् । स्थावरं जङ्गमं चैव संयोगाच्च यथा विषम् ।। ६६ ।। तत्सर्व नाशयेच्छीघ्रं शूलं भूतादिदोषजम् ।
संस्कारहीनरत्नधातूनां च दोषाः सिद्धाः पारदमभ्रकं च विविधान्धातूंश्च लोहानि च प्राहुः किंच मणीनपीह सकलान्संस्कारतः सिद्धिदान् । यत्संस्कारविहीनमेषु हि भवेद्यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन्निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः॥६७॥ यान्संस्कृताञ्शुभगुणानथ चान्यथा चेद्दोषांश्च यानपि दिशन्ति रसादयोऽमी | याचेह सन्ति खलु संस्कृतयस्तदेतन्नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥ ६८ ॥
10:1
Acharya Shri Kailassagarsuri Gyanmandir
इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरम् । अवधार्य वर्गमिममाद्य वैद्यकप्रगुणप्रयोगकुशलो भवेद्बुधः ॥ ६९ ॥ कुर्वन्ति ये निजगुणेन रसाध्वगेन नृणां जरन्त्यपि वपूंषि पुनर्नवानि । तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥ ७० ॥ नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूय ( ये ) स्तथा चित्ताकर्षणचञ्चवस्त्रिभुवनं भूम्ना परिष्कुर्वते । तेनात्रैष कृते नृसिंहकृतिना नामादिचूडामणी संस्थामेति मितस्त्रयोदशतया वर्ग: सुवर्णादिकः ॥ ७१ ॥
इति श्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायनाम्न्यभिधानचूडामणौ रसायनवर्गमण्डनवर्गपरपर्यायः सुवर्णादिवर्गस्त्रयोदशः ॥ १३ ॥
अथ पानीयादिश्चतुर्दशो वर्गः
( १ ) गङ्गा ।
गङ्गा स्वर्गसरिद्वरा त्रिपथगा मन्दाकिनी जाह्नवी पुण्या विष्णुपदी समु
१ झ ८. सत्क्रियाः ।
For Private and Personal Use Only