________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८०
परिशिष्टो- [सुवर्णादित्रयोदशो वर्गः] (१६) महारत्नोपरत्नानि । लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च । वैडूर्यपुष्परागप्रवालगोमेदकादयोऽर्वाञ्चः ॥५२॥ गोमेदप्रवालवायव्यं देवेज्यमणीन्दुतरणिकान्ताद्याः। नानावर्णगुणान्या विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥ ५३॥
(१७) स्फटिकः। स्फटिकः सितोपलः स्यादमलमणिनिर्मलोपलः स्वच्छः । स्वच्छमाणरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥ ५४॥
गुणाः-स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् । तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम् ॥ ५५ ॥
स्फटिकपरीक्षा-यद्गङ्गातोयविन्दुच्छविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरमतिहिमं पित्तदाहास्रहारि । पाषाणैर्यनिष्ठं स्फुटितमपि निजां स्वच्छतां नैव जह्यातजात्यं जात्वलभ्यं शुभमुपचिनुते शैवरत्नं विचित्रम् ॥ ५६ ॥
(१८) सूर्यकान्तः। अथ भवति सूर्यकान्तस्तपनमणिस्तपनश्च रविकान्तः । दीप्तोपलोऽग्निगर्भो ज्वलनाश्माऽर्कोपलश्च वसुनामा ॥ ५७ ॥
गुणाः-सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः । वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥ ५८॥
सूर्यकान्तपरीक्षा-शुद्धः स्निग्धो निर्वणो निस्तुषोऽन्तर्यो निर्दृष्टो व्योमनैर्मल्यमेति । यः सूर्यांशुस्पर्शनिष्ठयुतवह्निर्जात्यः सोऽयं जायते सूर्यकान्तः ॥५९॥
(१९) वैक्रान्तम् । वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् । गोनासः क्षुद्रकुलिशं चूर्णवज्र च गोनसः ॥६०॥
गुणाः-वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् । क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनम् ॥ ६१॥ वज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् । यद्विक्रान्ति धत्ते तद्वैकान्तं बुधैरिदं कथितम् ॥ ६२ ॥
(२०) इन्दुकान्तः। इन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा चन्द्रजोपलः । शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ ६३ ॥
१ढ. 'दवालवायजदे । २ झ, ट, द. निमष्टो। ३ झ. द. व्योनि नै । ४ ज. शं जीणे ।
For Private and Personal Use Only