SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३ त्रयोदशो वर्गः ] www.kobatirth.org राजनिघण्टुः । ( १३ ) गोमेदकः । गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः । स्वर्भानवः पडाढोऽयं पिङ्गः स्फटिक इत्यपि ॥ ४० ॥ गुणाः -- गोमेदकोऽम्ल उष्णश्च वातकोपविकारजित् । दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ ४१ ॥ गोमेदलक्षणम् —– गोमूत्रार्थं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते । मारक्तं श्रीमतां योग्यमेतद्गोमेदाख्यं रत्नमाख्यान्ति सन्तः ॥ ४२ ॥ गोमेदपरीक्षा – पात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलताम् । घर्षेऽप्यहीनकान्ति गोमेदं तं बुधा विदुर्जात्यम् || ४३ || अरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु । विच्छायं शर्करागारं गोमेदं विबुधस्त्यजेत् ॥ ४४ ॥ (१४) वैडूर्यम् । Acharya Shri Kailassagarsuri Gyanmandir ३७९ वैडूर्य केतुरत्नं च कैतवं वालवीयजम् । मातृष्यमभ्रलोहं च खशब्दाङ्कुरकस्तथा । वैड़र्यरत्नं संप्रोक्तं ज्ञेयं विदुरजं तथा ॥ ४५ ॥ गुणाः वैदूर्यमुष्णमम्लं च कफमारुतनाशनम् । गुल्मादिदोषशमनं भूषितं च शुभावहम् || ४६ ॥ वैर्यलक्षणम् – एकं वेणुपलाशपेशलरुचामायूरकण्ठत्विषा मार्जारक्षणपिङ्गलच्छविजुपा ज्ञेयं त्रिधा छायया । यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोपोज्झितं वै विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ ४७ ॥ कुवैडूर्यलक्षणम् - विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतम् । सत्रासं परुषं कृष्णं वैडूर्य दूरतस्त्यजेत् ॥ ४८ ॥ विशेषः - घृष्टं यदात्मना स्वच्छं स्वच्छायां निकषाश्मनि । स्फुटं प्रदर्शयेदेतद्वै जात्यमुच्यते ॥ ४९ ॥ For Private and Personal Use Only (१५) नवग्रहरत्नक्रमः । माणिक्यं पद्मबन्धोरतिविमलतमं मौक्तिकं शीतभानोमयस्य प्रवाल मरकतमतुलं कल्पयेदिन्दुसूनोः । देवेज्ये पुष्परागं कुलिशमपि कवेनलमकत्मजस्य स्वर्भानोश्चापि गोमेदकमथ विदुरोद्भावितं किंतु केतोः ॥ ५० ॥ गुणाः -- इत्थमेतानि रत्नानि तत्तदुद्देशतः क्रमात् । यो दद्याद्विभृयाद्वाऽपि तस्मिन्सानुग्रहा ग्रहाः || ५१ ॥ साधारणरत्नदोषाः—संत्यज्य वज्रमेकं सर्वत्रान्यत्र संघाते । लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥ ५२ ॥
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy