SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७८ परिशिष्टो [ सुवर्णादि:माणिक्यदोषाः-द्विच्छायमभ्रपिहितं कर्कशशर्करिलं भिन्नधूनं च । रागविकलं विरूपं लघुमाणिक्यं न धारयेद्धीमान् ॥ २७ ॥ _चतुर्विधमाणिक्यजातिः-तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात्कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकम् । तन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर्माणिक्यं कषघर्षणेऽप्यविकलं रागेण जात्यं जगुः ॥ २८ ॥ ___(११) पुष्परागः। पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च । पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥ २९ ॥ गुणाः-पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः। आयुः श्रियं च प्रज्ञा च धारणात्कुरुते नृणाम् ॥ ३० ॥ ___पुप्परागलक्षणम्-सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव मुवृत्तशीतम् । यः पुष्परागममलं कलयेदमुष्य पुष्णाति कीर्तिमतिशौर्यसुखायुरर्थान् ॥ ३१॥ दुष्टपुष्परागलक्षणम् – कृष्णबिन्द्रङ्कितं रूक्षं धवलं मलिनं लघु। विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ ३२॥ पुष्परागपरीक्षा-घृष्टं निकापपट्टे यत्पुष्यति रागमधिकमात्मीयम् । तेन खलु पुष्परागो जात्यतयाऽयं परीक्षकैरुक्तः ॥ ३३ ॥ (१२) नीलः । नीलस्तु शौरिरत्नं स्यानीलाश्मा नीलरत्नकः । नीलोपलस्तृणग्राही महानीलः सुनीलकः ॥ ३४॥ गुणाः-मसारमिन्द्रनीलं स्याद्गल्लर्कः पद्मरागजः । नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः ॥३५॥ यो दधाति शरीरे स्यात्सौ(च्छौ)रिर्मङ्गलदो भवेत् । नीललक्षणम्-ननिम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः । तृणग्राही मृदुनीलो दुर्लभो लक्षणान्वितः ॥ ३६ ॥ ___ कुनीललक्षणम् ---मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः। रूक्षः स्फुटितगर्तश्च वो नीलः सदोषकः ॥३७॥ सितशोणपीतकृष्णाश्छाया नीले क्रमादिमाः कथिताः। विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत्फलवत् ॥ ३८॥ आस्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितम् । यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ ३९॥ १ झ8. जात्या । २ झ. द. गशकलं। ३ज, ट, कृष्णं वि। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy