________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३ त्रयोदशो वर्गः ] राजनिघण्दुः।
३७७ ___गुणाः–खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् । व्रणदोषकफास्सनी नेत्ररोगनिकुन्तनी ॥ १५॥
(५) दुग्धपाषाणः। दुग्धाश्मा दुग्धपाषाणः क्षीरीगोमेदसंनिभः। वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥ १६ ॥
गुणाः—दुग्धपाषाणको रुच्य ईषदुष्णो ज्वरापहः । पित्तहृद्रोगशूलनः कासाध्मानविनाशनः ॥ १७॥
(६) कर्परमणिः । कर्पूरनामभिश्चाऽऽदावन्ते च मणिवाचकः । गुणाः-कर्पूरमणिनामाऽयं शुक्त्या वातादिदोषनुत् ॥ १८ ॥
(७) आखुपाषाणः । मूषकस्याभिधा पूर्व पाषाणस्याभिधा ततः। गुणाः—आखुपाषाणनामाऽयं लोहसंकरकारकः ॥ १९ ॥
(८) रत्नानि । धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥२०॥ द्रव्यं काञ्चनलक्ष्मीभोग्यं वसुवस्तुसंपदो वृद्धिः। श्री~वहार्य द्रविणं धनमर्थो राः स्वापतेयं च ॥२१॥
(९) रत्नसामान्यम् । रत्नं वसुमणिरुपलो दृषद्रविणदीप्तवीर्याणि । रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥ २२ ॥
(१०) माणिक्यम् । माणिक्यं शोणरत्नं च रत्नराविरत्नकम् । शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥२३॥ रागदृक्पद्मरागश्च रत्नं शोणोपलस्तथा । सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ २४ ॥
गुणाः—माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनम् । रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ २५॥
माणिक्यलक्षणम्-स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च । इति जात्या माणिक्यं कल्याणं धारणात्कुरुते ॥ २६ ॥
१ झ. ढ. क्षारगों। २ झ. ढ. ग्धी क्षार । ३ ट. युक्त्या । ४ ज. ट. तरणो। ५ ज. ट. 'त्तव्रणापहम् ।
४८
For Private and Personal Use Only