SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७६ परिशिष्टो [ सुवर्णादिःच तीक्ष्णकम् ॥ १ ॥ शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा । तुवरी हरितालं च गन्धकं च शिलाजतु ॥ २ ॥ सिक्थकं च द्विकासीसं माक्षिको पञ्चधाऽञ्जनम् । कम्पिल्लतुत्थरसकं पारदं चाभ्रकं चतुः ॥ ३ ॥ स्फटी च शुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा । खटिनी दुग्धपाषाणो विमला च द्विधा मता ॥४॥ सिकता च द्विककुष्ठं शर(चन्द्र)वेदमिताद्वयाः। अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥ ५॥ माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्यादथ पुष्परागः । वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥६॥ स्फटिकश्च सूर्यकान्तो वैक्रान्तश्चन्द्रकान्तकः । राजावर्तः पेरोजं स्यादुभौ बाणाश्वसंख्यया ॥७॥ (१) भूनागः। भूनागः क्षितिनागश्च भूजन्तू रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ८॥ गुणाः-भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः । रसस्य जारणे तूक्तं तत्सत्त्वं तु रसायनम् ॥ ९॥ (२) स्फटिकी। स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा । रङ्गदृढा दृढरङ्गा रङ्गदा वसुसंमिता ॥ १०॥ गुणाः-स्फटी च कटुका स्निग्धा कषाया प्रदरापहा । मेहकृच्छ्रवमीशोषदोपत्री दृढरङ्गदा ॥ ११॥ __(३) मुक्ताशुक्तिः। शुक्तिर्मुक्तापसूश्चैव महाशुक्तिश्च शुक्तिका । मुक्तास्फोटस्तौतिकं तु मौक्तिकप्रसवा च सा ॥ १२ ॥ ज्ञेया भौक्तिकसूश्चैव मुक्तामाताऽङ्कधा स्मृता । गुणाः-मुक्ताशुक्तिः कटुः स्निग्धा श्वासहद्रोगहारिणी । शूलपशमनी रुच्या मधुरा दीपनी परा ॥ १३ ॥ (४) खटिनी। खटिनी खटिका चैव खटी धवलमृत्तिका । सितधातुः श्वेतधातुः पाण्डुमूत्पाण्डुमृत्तिका ॥ १४ ॥ १ ज. श. ढ. रमाका । २ ज. ट. मौक्तिकशुक्तिश्च । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy