________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२ चन्दनादिादशो वर्गः] राजनिघण्टुः ।
अथ चन्दनादिदिशो वर्गः।
श्रीखण्डं शबरं पीतं पत्राङ्गं रक्तचन्दनम् । बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतम् ॥ १॥ देवदारु द्विषा प्रोक्तं चीडा सप्तच्छदस्तथा । सरल: कुङ्कुमं कङ्गुः कस्तूरी रोचना तथा ॥२॥ कर्पूरः स्याजवादिस्तु नन्दी दुर्जातिपत्रिका । जातीफलं च ककोलं लवङ्गं स्वादुरुच्यते ॥ ३॥ अगरुश्च विधा मांसी तुरुष्को गुग्गुलुस्विधा । रालः कुन्दुरुकः कुष्ठः सारिवा तु द्विधा नखौ ॥ ४ ॥ स्पृक्का स्थौणेयकं चैव मुरा शैलेयचोरकः । पद्मप्रपुण्डरीके च लामजं रोहिणी द्विधा ॥५॥श्रीवेष्टोशीरनलिका मुनिबाण(इन्दुदधि) मिताहयाः।
(१) जवादि। जवादि गन्धराजं स्यात्कृत्रिमं मृगचर्मजम् । समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमम् ॥ ६ ॥ सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधम् ।
गुणाः--सौगन्धिकं जवादि स्यास्निग्धं चोष्णं सुखावहम् । वाते हितं च राज्ञां च मोहनाडादकारणम् ॥ ७ ॥ जवादि नीलं संस्निग्धमीपत्पीतं सुगन्धदम् । आतपे बहलामोदं राज्ञां योग्यं न चान्यथा ॥ ८ ॥
इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गम् । वर्ग वक्त्राम्भोरुहमोदाहमधीयाथैनं मध्येसंसदसौ दीव्यति वैद्यः ॥ ९॥ ये गन्धयन्ति सकलानि च भूतलानि लोकांश्च येऽपि सुखयन्ति च गन्धलुब्धान् । तेषामयं मलयजादिसुगन्धिनाम्नां भूर्गन्धवर्ग इति विश्रुतिमेति वर्गः ॥ १० ॥ उच्चैर्यच्चरितानि शीतसुरभीण्यम्भस्यसत्यात्मनां दुश्चारित्रजना निषङ्गजनितं द्राग्दौस्थ्यमास्थन्स्वकम् । तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थिति वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥ ११ ॥ इति श्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायनामधेयवत्यभिधानचूडामणौ
गन्धवर्गापरनामा चन्दनादिादशो वर्गः ॥ १२ ॥
अथ सुवर्णादित्रयोदशो वर्गः।
त्रिस्वर्णरौप्यताम्राणि त्रपुसीसद्विरीतिका। कांस्यायोवर्तकं कान्तं किटं मुण्डं
१ ज. द. पतङ्गं ।
For Private and Personal Use Only