________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४
परिशिष्टो- [आम्रादिरेकादशो वर्गः ] गुणाः—कारकोऽम्ल उष्णश्च वातहत्पित्तकारकः । पकस्तु मधुराम्लः स्यादलपुष्टिरुचिपदः ॥ १४ ॥
(३) रुद्राक्षः। रुद्राक्षश्च शिवाक्षश्च शर्वाक्षो भूतनाशनः । पावनो नीलकण्ठाक्षो हराक्षश्च शिवप्रियः॥ १५॥
गुणाः- रुद्राक्षमम्लमुष्णं च वातघ्नं कफनाशनम् । शिरोर्तिशमनं रुच्यं भूतग्रहविनाशनम् ॥ १६ ॥
(४) तेजःफलः। तेजःफलो बहुफलस्तथोक्तः शाल्मलीफलः । फलस्तीक्ष्णादिसंयुक्तः फलान्तस्तबकादिकः ॥ १७॥ स्तेयीफलो गन्धफलः कण्टवृक्षः प्रकीर्तितः ।
गुणाः-तेजःफलः कटुस्तीक्ष्णः सुगन्धिर्दीपनः परः । वातश्लेष्मारुचिघ्नश्च बालरक्षाकरः परः ॥१८॥
(५) विकण्टकः । विकण्टको मृदुफलो ग्रन्थिकः स्वादुकण्टकः । गोकण्टकः काययातो व्याघ्रः पादो घनद्रुमः ॥ १९ ॥ गर्जाफलो घनफलो मेघस्तनितोद्भवश्व मुदिरफलः। पादृष्यो हास्यफल: स्तनितफल: पश्चदशसंज्ञः ॥ २०॥
गुणाः—विकण्टकः कषायः स्यात्कटू रूक्षो रुचिपदः । दीपनः कफहारी च वस्त्ररङ्गविधायकः ॥ २१ ॥
इत्थं नानाफलतरुलतानामवत्तद्गुणादिव्यक्ताख्यानप्रगुणरचनाचारुसौरभ्यसारम् । वर्ग वक्त्राम्बुरुहवलभीलास्यलीलारसालं विद्यावैद्यः खलु सफलयेदेतमाम्नाय भूम्ना॥२२॥यान्युपभुञ्जानानां स भवति संसारपादपः सफलः। तेषामेष फलानां वर्गः फलवर्ग इति कथितः॥२३॥यस्याजस्रविकस्वरामलयशःमाग्भारपुप्पोद्गमः साश्चर्य विबुधेप्सितानि फलति श्रीमान्करः स्वर्द्धमः। तस्यायं कवितुः कृतौ नरहरेराम्रादिरेकादशो वर्गः स्वर्गसभाभिषग्भिरभिधाचूडामणावीरितः ॥२४॥ इति प्रतिभटवैद्यमदकरटिकोटिकटकोत्पाटनकलाप्रगल्भपौरुषपञ्चाननविनोदविदितनिनाभिधानश्रीमदीश्वरसूरिसूनुश्रीमदमतेशचरणारविन्दनित्याराधननिरतिशयानन्दरसानुभवसुभगान्तरङ्गश्रीकाश्मीरादिवंशपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्नि श्रीमदभिधानचूडामणौ
फलवर्गापराख्योऽयमाम्रादिवर्ग एकादशः ॥ ११॥
१ झ. द. गोरण्टकः। २ झ. द. घफलस्त।
For Private and Personal Use Only