SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११ एकादशो वर्गः] राजनिघण्टुः। ३७३ भेद्यत्वं यमिनां मनांस्यपि ययुः पुष्पाशुगस्याऽऽशुगैः । तेषां भूषयतां सुरादिकशिरःपत्रप्रसूनात्मनां वर्गोऽयं वसतिर्मता सुमनसामुत्तंसवर्गाख्यया ॥ ५८ ॥ ___ लोकान्स्पर्शनयोगतः प्रसृमराण्यामोदयन्त्यञ्जसा प्रोत्फुल्लानि च यद्यशांसि विशदान्युत्तंसयन्ते दिशः । तस्यायं दशमः कृतौ स्थितिमगाद्वर्गो नृसिंहेशितुः सूरीन्दोः करवीरकादिरभिधासंभारचूडामणौ ॥ ५९॥ इति श्रीनिघण्टुराजचूडामणौ करवीरादिर्दशमो वर्गः ॥ १० ॥ अथाऽऽम्रादिरेकादशो वर्गः आम्राः पञ्चविधाः प्रोक्ता जम्बूश्चैव चतुर्विधा । पनसः पञ्चकदली नालिकेरद्वयं तथा ॥ १॥ खजूरी पञ्चधा चैव चारो भल्लातरायणी । दाडिमं तिन्दुको चाथो अक्षोटः पीलुको द्विधा ॥२॥ पारेवते मधूकं तु द्विधा भव्यारुके क्रमात् । द्राक्षा त्रिधाऽथ कारः परुषः पिप्पलो वटः ॥ ३ ॥ वटी अश्वत्थका प्लक्षस्तथा चोदुम्बरस्त्रिधा । तत्त्वचा बदरं चाब्धि बीजपूरं त्रिधा मतम् ॥ ४ ॥ आमलक्यौ द्विधा चैव चिञ्चा चिञ्चारसस्तथा । आम्रातकोऽथ नारङ्गो निम्बूजम्बीरकद्वयम् ॥ ५ ॥ कपित्थस्तुम्बरश्वाथ रुद्राक्षो बिल्वसल्लकी । कतकः कर्कटश्चैव द्विधा श्लेष्मातकस्तथा ॥६॥ मुष्ककः करमदेश्च तथा तेज-फलस्तथा । विकण्टकः शिवा सप्ताप्यक्षः पूगोऽष्टधा स्मृतः॥७॥ सप्तधा नागवल्ली स्याचूर्ण चैवाष्टधा स्मृतम् । उक्ता आम्रादिके वर्गे वेदचन्देन्दु(वृक्षास्त्रिपञ्च)संख्यया ॥ ८॥ (१) पनसः (फनसः) ( उत्तराषाढा) पनसस्तु महासर्जः फलिनः फलवृक्षकः । स्थूलः कण्टफलश्चैव स्यान्मूलफलदः स्मृतः ॥९॥ अपुष्पफलदः पूतफलो ह्यङ्कमितस्तथा । गुणाः—पनसं मधुरं सुपिच्छिलं गुरु हृद्यं बलवीर्यवृद्धिदम् । श्रमदाहविशोषनाशनं रुचिकृद्राहि च दुर्जरं परम् ॥ १० ॥ ईपत्कषायं मधुरं तद्वीजं वातलं गुरु । तत्फलस्य विकारग्नं रुच्यं त्वग्दोषनाशनम् ॥ ११ ॥ बालं तु नीरसं हृद्यं मध्यपकं तु दीपनम् । रुचिदं लवणायुक्तं पनसस्य फलं स्मृतम् ॥ १२॥ (२) कर्मारः। कर्मारः कर्मरकः पीतफलः कर्मरश्च मुद्गरकः । मुद्गरफलश्च धाराफलकस्तु कर्मारकश्चैव ॥ १३ ॥ For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy