________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
परिशिष्टो- . [ करवीरादिर्दशमो वर्गः ] गुणाः-पाची कटुतिक्तोष्णा सकपाया वातदोषहत्री च । ग्रहभूतविकारकारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥ ४७ ॥
(२०) बर्बरः। वर्वरः सुमुखश्चैव गरघ्नः कृष्णबर्वरः । सुकन्दनो गन्धपत्रः पूतगन्धः सुराईकः ॥ ४८ ॥
गुणाः-वर्वरः कटुकोष्णश्च सुगन्धिान्तिनाशनः । विसर्पविषविध्वंसी त्वग्दोषशमनस्तथा ॥ ४९ ॥
. (२१) सुरपर्णम् । मुरपर्ण देवपर्ण वीरपणं सुगन्धिकम् । मञ्चिपत्रं सूक्ष्मपत्रं देवाह गन्धपत्रकम् ॥ ५० ॥
गुणाः—कदृष्णं सुरपर्ण च कृमिश्वासबलासजित् । दीपनं कफवातघ्नं वये बालहितं तथा ॥५१॥
(२२) आरामशीतला। आरामशीतला नन्दा शीतला सा सुनन्दिनी । रामा चैव महानन्दा गन्धाढ्याऽऽरामशीतला ॥५२॥
गुणाः-आरामशीतला तिक्ता शीतला पित्तहारिणी । दाहशोषप्रशमनी विस्फोटव्रणरोपणी ॥ ५३॥
(२३) पुष्पद्रवः। पुष्पद्रवः पुष्पसारः पुष्पस्वेदश्च पुष्पजः । पुष्पनिर्यासकश्चैव पुष्पाम्बुजः षडाह्वयः ॥ ५४॥
गुणाः-पुष्पद्रवः सुरभिशीतकषायगौल्यो दाहश्रमौर्तिवमिमोहमुखामयनः । तृष्णातिपित्तकफदोपहरः सरश्च संतपणश्चिरमरोचकहारकश्च ॥ ५५ ॥
(२४) जात्यादिमोदः। गुणाः—जाती भाति मृदुर्मनोज्ञमधुराऽऽमोदो मुहूर्तद्वयं द्वैगुण्येन च मल्लिका मदकरी गन्धाधिका यूथिका । एकाहं वनमालिका मदकरं चाह्नां त्रयं चम्पर्क तीव्रामोदमथाष्टवासरमितामोदान्विता केतकी ॥ ५६ ॥
इत्थं नानाप्रथितसुमनःपत्रपद्माभिधानप्रस्थानोक्तिप्रगुणिततया तद्गुणाख्याप्रवीणम् । वाचोयुक्तिस्थिरपरिमलं वर्गमेनं पठित्वा नित्यामोदैर्मुखसरसिजं वासयत्वाशु वैद्यः ॥ ५७ ॥ स्थैर्ये शैलशिलोपमान्यपि शनैरासाद्य तद्भावनां
१ ज. ट. 'रहरा त्व' । २ ज. 'तना। ३ ज. वातहरं । ४ ज. °मातिव।
For Private and Personal Use Only