________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७० परिशिष्टो
[ करवीरादि:(८) मुचकुन्दः। मुचकुन्दो बहुपत्रः सुदलो हरिवल्लभः सुपुष्पश्च । अर्ध्याहों लक्ष्मणको रक्तप्रसवश्च वसुनामा ॥ २५ ॥
गुणाः-मुचकुन्दः कटुतिक्तः कफकासविनाशनश्च कैण्टहरः। त्वग्दोषशोफशमनो व्रणपामाविनाशनश्चैव ॥ २६ ॥
(९) करुणी। करुणी ग्रीष्मपुप्पी स्याद्रक्तपुष्पी च वारुणी । राजप्रिया राजपुष्पी सूक्ष्मा च ब्रह्मचारिणी ॥ २७॥
गुणाः-करुणी कटुतिक्तोष्णा कफमारुतनाशिनी । आध्मानविषविच्छदिजंवश्वासहारिणी ॥ २८॥
(१०) माधवी। माधवी चन्द्रवल्ली च सुगन्धा भ्रमरोत्सवा । भृङ्गप्रिया भद्रलता भूमिमण्डपभूषणी ॥ २९ ॥
गुणाः-माधवी कटुका तिक्ता कषाया मदगन्धिका । पित्तकासत्रणान्हन्ति दाहशोकविनाशिनी ॥ ३०॥
(११) गणिकारी। गणिकारी काचनिका काश्चनपुष्पी वसन्तदूती च । गन्धकुसुमाऽतिमोदा वासन्ती मदमादिनी चैव ॥ ३१ ॥ __ गुणाः-गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा । कामक्रीडाडम्बरशम्बरहरचापलासरा ॥ ३२॥
(१२) केविका। केविका कविका केवा भृङ्गारिनॅपवल्लभा। भृङ्गमारी महागन्धा राजकन्या:लिमोहिनी ॥ ३३ ॥
गुणाः—केविका मधुरा शीता दाहपित्तश्रमापहा । वातश्लेष्मरुजां हनी पित्तच्छर्दिविनाशिनी ॥ ३४ ॥
(१३) बन्धूकः। बन्धूको बन्धुजीवः स्यादोष्टपुष्पोऽवल्लभः। मध्यंदिनो रक्तपुष्पो रागपुष्पो हरिमियः ॥ ३५ ॥ असितसितपीतलोहितपुष्पविशेषाच्चतुर्विधो बन्धूकः।
* इयं गणिकारी कोंकणे प्रसिद्धा ।। १ ज. कण्ठकरः । झ. ढ. कण्ठदोषहरः । २ ज. ट. 'जन्तुम्नश्वा ।
For Private and Personal Use Only