________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० दशमो वर्गः] राजनिघण्टुः।
गुणाः-पुंनागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् । भूतविद्रावणश्चैव देवतानां प्रसादनः ॥ १२॥
(३) अगस्त्यः । अगस्त्यः शीघ्रपुष्पः स्यादगस्तिस्तु मुनिद्रुमः । व्रणारिर्दीर्घफलको वक्रपुष्पः सुरप्रियः ॥ १३ ॥
गुणाः—सितपीतनीललोहितकुसुमविशेषाच्चतुर्विधोऽगस्तिः । मधुरशिशिरत्रिदोषश्रमकासविनाशनश्च भूतनः ॥ १४ ॥ तथाच-अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् । बलासकासवैवर्ण्यभूतघ्नं च बलापहम् ॥ १५ ॥
(४) सितपाटलिः । सितपाटलिका चान्या सितकुम्भी फलेरुहा । सिता मोघा कुवेराक्षी सिताहा काष्ठपाटला ॥ १६ ॥ पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥ १७ ॥
गुणा:-सितपाटलिका तिक्ता गुरूष्णा वातदोषनुत् । वमिहिक्काकफनी च श्रमशोषापहारिका ॥ १८ ॥
(५) सिन्दूरी। सिन्दूरी वीरपुष्पश्च तृणपुष्पी करच्छदः । सिन्दूरपुष्पी शोणादिपुष्पी बाणादयः स्मृतः ॥ १९॥
गुणाः-सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् । शिरोर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥ २० ॥
(६) मुद्गरः। मुद्गरो गन्धसारस्तु सप्तपत्रश्च कर्दमी । वृत्तपुष्पोऽतिगन्धश्च गन्धराजो विटप्रियः ॥ २१ ॥ गेयप्रियो जनेष्टश्व मृगेष्टो रुद्रसंमितः।।
गुणाः-मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः। मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥ २२॥
(७) मल्लिका । मल्लिका मोदिनी चान्या वटपत्रा कुमारिका । सुगन्धाढ्या वृत्तपुष्पा मुक्तामा वृत्तमल्लिका ॥ २३ ॥
गुणाः-नेत्ररोगापहन्त्री स्यात्कट्रष्णा वृत्तमल्लिका । व्रणनी गन्धवहुला दारयत्यास्यजान्गदान् ॥ २४ ॥
१ ज. पुष्पी चारुग' । २ ज. सदापत्रा तु क ।
For Private and Personal Use Only