________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६८ परिशिष्टो
[ करवीरादि:गदान्गुरुतरानाक्रम्य वीर्यासिना ये स्थित्वाऽपि वने गुणेन सरुजां स्वेनावनं तन्वते । तेषामेष महानसीममहिमा वन्यात्मनां वासभूक्षाणां भणितो भिषग्भिरसमो यो वृक्षवर्गाख्यया ॥५३॥ यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसोऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभनश्रिया । तस्यायं नवमः कृतौ नरहरेवर्गः प्रभद्रादिको भद्रात्मन्यभिधानशेखरशिखाचूडामणौ संस्थितः ॥ ५४॥ इति श्रीवैद्यकरानमण्डलीमौलिमाणिक्यमण्डनश्रीमदीश्वरपण्डिततनुजातकात्यायनीरमणचरणारविन्दसौख्यनालसराजहंसश्रीकाश्मीराद्यवंशाचार्यश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायेऽ.
भिधानचूडामणौ प्रभद्रादिर्नवमो वर्गः ॥ ९॥
अथ करवीरादिर्दशमो वर्गः
चतुर्धा करवीरोऽथ धत्तूरत्रितयं तथा । कोविदारोऽब्धिरर्कः स्यानमेरुः किंशुकस्तथा ॥१॥ पुंनागस्तिलकोऽगस्त्यः पाटल्यौ च द्विधा स्मृते । अशोकश्चम्पको धन्वी केतकी द्विविधा तथा ॥२॥ सिन्दूरी च तथा जाती मुद्गरः शतपत्रिका । मल्लिका च चतुर्धा स्याद्वासन्ती नवमल्लिका ॥ ३ ॥ अतिमुक्तो द्विधा यूथी कुब्जको मुचकुन्दकः । करुणी माधवी चाथ गणिकारी च कुन्दकः ॥ ४॥ बककेविकबन्धूकास्त्रिसंधिश्च जपा तथा । प्रोक्ता भ्रमरमारी च तरुण्यम्लानकस्तथा ॥५॥ किङ्किरातोऽथ बालाख्यो झिण्टिका चोष्ट्रकाण्डिका । तगरं दमनद्वंद्वं तुलसी मरुवो द्विधा ॥६॥ अर्जकश्च चतुर्गणापत्री पाच्यौ च वालकः । बर्बरो मश्चिकापत्रः प्रोक्ता चाऽऽरामशीतला ॥७॥ अथ कमलपुण्डरीकाहयकोकनदानि पद्मिनी चैव । पद्माक्षं च मृणालं तत्कन्दः केसरश्च तथा ॥८॥ उत्पलकुमुदकुवलयमुत्पलिनी मरन्दो वाणषण्मित्या(?)। उत्तंसनाम्नि घर्गे द्रव्याण्यत्रोपदिश्यन्ते ॥ ९ ॥
(१) सुरघुनागः। नमेरुः सुरपुंनागः सुरेष्टः सुरपणिका । सुरतुङ्गश्च पञ्चाहः पुनागगुणसंयुतः ॥१०॥
(२) पुंनागः। पुंनागः पुरुषस्तुङ्गः पुनामा पाटलः पुमान् । रक्तपुष्पो रक्तरेणुररुणोऽयं नवायः॥११॥
For Private and Personal Use Only