________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९ नवमो वर्गः]
राजनिघण्टुः। गुणाः-कारस्करः कटूष्णश्च तिक्तः कुष्ठविनाशनः । वातामयास्रकण्डूतिकैफामाशोंवणापहः ॥ ४२ ॥
(१६) कटभी। कटभी नाभिका शौण्डी पाटली किणिही तथा । मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥ ४३ ॥ शितादिकटभी श्वेता किणिही गिरिकणिका । शिरीषपत्रा कालिन्दी शतपादी विषनिका ॥ ४४ ॥ महाश्वेता महाशौण्डी महादिकटभी दश ।
गुणाः-कटभी भवेत्कटूष्णा गुल्मविषाध्मानशूलदोषनी । वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ ४५ ॥
(१७) क्षुवकः। क्षुवकः क्षुरकस्तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः। राजोद्वेजनसंज्ञश्च भूतद्रावी ग्रहाद्वयः ॥ ४६॥
गुणाः-भूताङ्कुशस्तीगन्धः कषायोष्णः कटुस्तथा । भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥ ४७॥
(१८) देवसर्षपकः। देवसर्षपकचाक्षो बदरो रक्तमूलकः । सुरसर्षपकश्चैन्द्रस्तथा सूक्ष्मदलः स्मृतः ॥ ४८ ॥ सर्षपो निर्जरादिः स्यात्कुरराविनवाभिधः ।
गुणाः-देवसर्षपनामा तु कटूष्णः कफनाशनः। जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥ ४९ ॥
(१९) लकुचः। लकुचो लिकुचः शालः कषायी दृढवल्कलैः। दृढः कार्यश्च शूरश्च स्थूलस्कन्धो नवावयः ॥ ५० ॥
गुणाः-लकुचः स्वरसे तिक्तः कषायोष्णो लघुस्तथा । कफदोषहरो दोही मलसंग्रहदायकः ॥५१॥
इत्थं वन्यमहीरुहाहयगुणाभिख्यानमुख्याऽनया भङ्गया भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरम् । वैद्यो वैद्यतु वर्गमेनमखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणम् ॥ ५२ ॥ ये वृश्वन्ति नृणां
१ ज. कफवातत्र । २ ट. 'कः क्षरक' । ३ घ. ढ. 'ल: । दद्वकार्शश्च । ४ ज. ट. कण्ठदो'। ५ ज. ग्राही।
For Private and Personal Use Only