________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६ परिशिष्टो
[प्रभद्रादिः(१०) हरिदुः। हरिद्रुः पीतदारुः स्यात्पीतकाष्ठश्च पीतकः । कदम्बकः सुपुष्पश्च सुराहः पीतकद्रुमः ॥ २६ ॥
गुणाः-हरिद्रुः शीतलस्तिक्तो मङ्गल्यः पित्तवान्तिजित् । अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ २७ ॥
(११) दग्धा। दग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा । रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ २८॥
गुणाः--दग्धा कटुकषायोप्णा कफवातनिकृन्तनी । पित्तप्रकोपनी चैव जठरानलदीपनी ॥ २९ ॥
(१२) शाखोटः। शाखोटः स्याद्भूतवृक्षो गवाक्षी घूकावासो भूर्जपत्रश्च पीतः । गुणाः-कौशिक्योऽजक्षीरनाशश्च सूक्तस्तिक्तोष्णोऽयं पित्तकद्वातहारी॥३०॥
(१३) *पुत्रजीवः । पुत्रजीवः पवित्रश्च गर्भदः सुतजीवकः । कुटजीवोऽपत्यजीवः सिद्धिदोऽपत्यजीवकः ॥ ३१॥ ___ गुणाः-पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः । चक्षुष्यः पित्तशमनो दाहेतृष्णानिवारणः ॥ ३२ ॥
(१४) महापिण्डी। महापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश्च सः । करहाटः क्षुरश्चैव शस्त्रकोशतरुः सरः ॥ ३९ ॥
गुणाः-पिण्डीतरुः कषायोष्णस्त्रिदोषशमनोऽपि च । चर्मरोगापहश्चैव विशेषाद्रक्तदोषजित् ॥ ४० ॥
(१५) कारस्करः। कारस्करस्तु किंपाको विषतिन्दुविषद्रुमः । गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ ४१॥
* पुत्रजीववृक्षः कोलापुरे प्रसिद्धः । १ ज. वातजि । २ झ. ढ. 'करद। ३ ज. ट. हश्रमनि । ४ ट. 'तकः प्रो।
For Private and Personal Use Only