SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९ नवमो वर्गः ] राजनिघण्टुः। ३६५ (४) तमालः। तमालो नीलतालः स्यात्कालस्कन्धस्तमालकः । नीलध्वजश्च तापिच्छः कालतालो महाबलः ॥ १५॥ गुणाः-तमालो मधुरो बल्यो वृष्यश्च शिशिरो गुरुः । कफपित्तवृषादाहश्रमभ्रान्तिकरः परः॥ १६ ॥ (५)वानीरः। वानीरो वृत्तपुष्पश्च शाखालो जलवेतसः । व्याधिघातः परिव्याधो नादेयो जलसंभवः ॥ १७ ॥ गुणाः—वानीरस्तिक्तशिशिरो रक्षानो व्रणशोधनः । पित्तास्रकफदोषघ्नः संग्राही च कपायकः ॥ १८ ॥ (६) कुम्भीरः। कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः । गुणाः—कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ १९ ॥ (७)धन्वनः। धन्वनो रक्तकुसुमो धनुवृक्षो महाबलः । रुंजासहः पिच्छलको रूक्षः स्वादुफलश्च सः॥ २०॥ गुणाः-धन्वनः कटुकोष्णश्च कषायः कफनाशनः । दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥२१॥ (८) भूर्जः। भू| वल्कद्रुमो भूर्जः सुचर्मा भूर्जपत्रकः। चित्रत्वग्विन्दुपत्रश्च रक्षापत्रो विचित्रकः ॥ २२ ॥ भूतनो मृदुपत्रश्च शैलेन्द्रस्थो द्विभूमितः। गुणाः-भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः । त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ २३ ॥ (९)तिनिसः। तिनिशः स्यन्दनश्चक्री रथाङ्गः शकटो रथः । रथिका भस्मगर्भश्च मेषी जलधरो दश ॥२४॥ गुणाः-तिनिशस्तु कषायोष्णः कफरक्तातिसारजित् । ग्राहको दाहजननो वातामयहरः परः ॥२५॥ १ ट. रुजापहः । २ झ. ढ. शताङ्गः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy