________________
Shri Mahavir Jain Aradhana Kendra
३६४
www.kobatirth.org
परिशिष्ट
अथ प्रभद्रादिर्नवमो वर्गः
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रभद्रादिः -
प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः । द्विरग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका || १ || काश्मर्याऽश्मन्तकचाथ कर्णिकारद्वयं तथा । वृश्चिकाली च कुटेजस्तद्वीजं च शिरीषकः || २ || करञ्जाः षड्विधाः कोलो नीलः सर्जश्च कर्णकौ । तालश्रीतालहिन्तालमाडास्तूलस्तमालकाः ॥ ३ ॥ चतुर्विधः कदम्बोऽथ वानीरः कुम्भवेतसः । धवश्व धन्वनो भूर्जस्तिनिशश्च ततोऽर्जुनः || ४ || हरिदुदग्धाशाखोटाः शाकोऽथो शिंशपात्रयम् । असनत्रयं वरुणः पुत्रजीवश्च पिण्डिका || ५ || कारस्करोऽथ कटभी क्षवको देवसर्षपः । डहुर्वि - कङ्कतश्चेति शराब्धिगणिताः क्रमात् ॥ ६ ॥
( १ ) वृश्चिकाली ।
काली विषाणी च विषघ्नी नेत्ररोगहा । उष्ट्रिकाऽप्यलिपर्णी च दक्षिणावर्तकी तथा || ७ || कलिकाऽप्यागमावर्ता देवलाङ्गुलिका तथा । करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥ ८ ॥ स्वर्णेपुष्पा युग्मफला तथा क्षीरविषाणिका । प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥ ९ ॥
गुणाः -- वृश्चिकाली कटुस्तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् । रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥ १० ॥
( २ ) नीलः ।
नीलस्तु नीलवृक्षो वातारिः शोफनाशनो नरनामा । नखवृक्षश्च नखालुन - खप्रियो दिग्गजेन्द्रमितसंज्ञः ॥ ११ ॥
गुणाः -- नीलवृक्षस्तु कटुकः कषायोष्णो लघुस्तथा । वातामयप्रशमनो नानाश्वयथुनाशनः ॥ १२ ॥
( ३ ) जरणद्रुमः । जरणमोऽश्वकर्णस्तार्क्ष्यप्रसवश्च सस्यसंवरणः । धन्यश्च दीर्घपर्णः कुशिकतरुः कौशिकचापि ॥ १३ ॥
गुणाः - अश्वकर्णः कटुस्तिक्तः स्निग्धः पित्तास्रनाशनैः । ज्वरविस्फोटकण्डुघ्नः शिरादोषार्तिकृन्तनः ॥ ११ ॥
For Private and Personal Use Only
१ ज. 'टजः कौटजं । झ. ट. टजः स्नुहीजं । २ ज. नंदा सा यु । ३ झ. 'नः । उरोवि । ४ ज. शिरोदो ।