________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ अष्टमो वर्गः]
राजनिघण्टुः।
(३७) गुण्डासिनी। गुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा । तृणपत्री जलवासा पृथुला सुविष्टरा च नवाहा ॥६६॥
गुणाः-गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा । तिक्तोष्णा श्वयथुनी च व्रणदोषनिबर्हणी ॥ ६७ ॥
(३८) शूली। शूली तु शूलपत्री स्यादशाखा धूम्रमूलिका । जलाश्रया मृदुलता पिच्छला महिषीप्रिया ॥ ६८ ॥
गुणाः-शूली तु पिच्छिला चोष्णा गुरुगौल्या बलप्रदा। पित्तदाहहरा रुच्या दुग्धद्धिप्रदायिका ॥ ६९ ॥
(३९)हिजलः। हिज्जुलोऽथ नदीकान्तो जलजो दीर्घपत्रकः । नदीजो निचुलो रक्तः कार्मुकः कथितश्च सः ॥ ७० ॥
गुणाः-हिज्जुलः कटुरुष्णश्च पवित्रो भूतनाशनः । वातामयहरो नानाग्रहसंचारदोषजित् ।। ७१ ॥
इत्यं नानाकण्टकिविटपिप्रस्तावव्याख्यातेरण्डादिकतृणविस्ताराढ्यम् । वर्ग विद्वान्वैद्यकेविषयप्रावीण्यं ज्ञेयापण्यारण्यकगुणमीयाद्वैद्यः।।७२॥ दुर्वारा विकृति स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्गाहाश्च हठेन कण्टकितया सूक्ष्माश्च ये केचन । तेषामेष महागमान्तरभुवामारण्यकानां किल क्रूरातभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥ ७३ ।। द्विजानां यो राजा जयति रचयन्नोषधिगणं पतीतोऽयं नृणाममृतकरतां धारयति च । अमुष्यायं वर्गों नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर्वसुभिरभिधाशेखरमणौ ॥ ७४॥ इति वैद्यराजराजमुकुटमण्डलीमाणिक्यमणिमण्डनायितश्रीमदीश्वरपण्डितात्मजश्रीमदुमारमणचरणनलिनाराधनराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्वयलब्धाधिकारश्रीनरसिंहपण्डितविरचिते निघण्टुराजापरनामधेयवत्यभिधानचूडामणावरण्यवर्गापरनामा शाल्मल्यादिरष्टमो वर्गः ॥ ८ ॥
१८. ष्णा च पशुघ्नी । २ झ. 'ककथितप्रा । ३ झ. दुर्वाहा।
For Private and Personal Use Only