________________
Shri Mahavir Jain Aradhana Kendra
३६२
www.kobatirth.org
परिशिष्ट
( ३० ) मन्थानकः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ शाल्मल्यादि:
मन्थानकस्तु हरितो दृढमूलस्तृणाधिपः ।
गुणाः - स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥ ५५ ॥ (३१) पल्लिवाहः ।
पल्लिवाहो दीर्घतृणः सुपत्रस्ताम्रवर्णकः ।
गुणाः - अर्हढं शाकपत्रादि पशूनां च बलमदः (म्) | ५६ ॥ (३२) लवणतृणम् ।
लवणतृणं लोणतृणं तृणाम्लं पदुतृणकमम्लकाण्डं च । गुणाः पटुतृणकं क्षाराम्लं कषायस्तन्यमश्ववृद्धिकरम् ॥ ५७ ॥ ( ३३ ) पण्यन्धः ।
पण्यन्धः कङ्गुणीपत्रः पण्यन्धा पणधा च सः ।
गुणाः - पण्यन्धा समवीर्या स्यात्तिक्ता क्षारा च सारिणी ।। ५८ ।। तत्कालशस्त्रघातस्य व्रणसंरोपणी परा । दीर्घा मध्या तथा हस्वा पण्यन्धा त्रिविधा स्मृता ।। ५९ ।।
(३४) गुण्डः ।
गुण्डस्तु काण्डगुण्डः स्याद्दीर्घकाण्डत्रिकोणकः । छत्रगुच्छोऽसिपत्रश्च नीलपत्रस्त्रिधारकः ॥ ६० ॥ वृत्तगुण्डोऽपरो वृत्तो दीर्घनालो जलाश्रयः । तत्र स्थूलो लघुश्चान्यस्त्रिधाऽयं द्वादशाभिधः ।। ६१ ॥
गुणाः — गुण्डास्तु मधुराः शीताः कफपित्तातिसारहाः । दाहरक्तहरास्तेषां मध्ये स्थूलतरोऽधिकः || ६२ ॥
(३५) गुण्डकन्दः ।
गुण्डकन्दः कसेरुः स्यात्क्षुद्रमुस्ता कसेरुका । सूकरेष्टः सुगन्धिश्व सुकन्दो गैन्धकन्दकः ।। ६३ ।।
गुणाः - कसेरुकः कषायोऽल्पमधुरोऽतिखरस्तथा । रक्तपित्तप्रशमनः शीतो दाश्रमापहः || ६४ ॥
For Private and Personal Use Only
(३६) चणिका । चणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा । गुणाः वृष्यावल्याऽतिमधुरा वीजैः पशुहिता तृणैः ॥ ६५ ॥
१ झ. "दृढः शा । २ झ. सुगन्धो । ३ झ. गन्धकन्दलः । ४ ज धुरः कटुतिक्तकः ।