________________
Shri Mahavir Jain Aradhana Kendra
८ अष्टमो वर्गः ]
www.kobatirth.org
राजनिघण्टुः ।
( २२ ) इक्षुदर्भा ।
इक्षुदर्भा सुदर्भाच पत्रालुस्तृणपत्रिका |
गुणाः - इक्षुदर्भा सुमधुरा स्त्रिग्धोष्णा तु कषायका । कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥ ४७ ॥
( २३ ) गोमूत्रिका |
गोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा ।
गुणाः - गोमूत्रिका तु मधुरा दृष्या गोदुग्धदायिनी ॥ ४८ ॥ ( २४ ) शिल्पिका ।
शिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा । गुणाः -- शिल्पिका मधुरा शीता तद्वीजं बलवृष्यदम् ॥ ४९ ॥ ( २५ ) निश्रेणिका |
निश्रेणिका श्रेणिका च नीरसा वैनवल्लरी |
गुणाः - निश्रेणिका नीरसोष्णा पशूनामबलप्रदा ॥ ५० ॥ ( २६ ) गर्मोटिका ।
( २८ ) तृणाढ्यम् । (तृणाख्यम् )
Acharya Shri Kailassagarsuri Gyanmandir
गर्मोटिका सुनीला च जेरडी च जलाश्रया ।
गुणाः - जैरडी मधुरा शीता सारिणी दाहहारिणी ॥ ५१ ॥ (२७) मजरः ।
मज्जरः पवनः प्रोक्तः सुतृणः स्त्रिग्धपत्रकः । मृदुग्रन्थिव मधुरो धेनुदुग्ध
करच सः ।। ५२ ॥
तृणाढ्यं पर्वततृणं पत्राढ्यं च मृगमियम् ।
गुणाः -- बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितम् ॥ ५३॥
(२९) वंशपत्री ।
वंशपत्री वंशदला जीरिका जीर्णपत्रिका |
- ३६१
गुणाः - वंशपत्री सुमधुरा शिशिरा पित्तनाशिनी । रक्तदोषहरा रुच्या पशूनां दुग्धदायिनी ॥ ५४ ॥
For Private and Personal Use Only
१ ज. वनवल्लभा । २ ज. जठरी । ट. जरटी । ३ ज. जठरी । ट. जरदी । ४ झ. तृणाख्यं । ५ ज. जिरिका ।
४६