________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[ शाल्मल्यादिःगुणाः- रामकाण्डजमूलं स्यादीषदुष्णं रुचिपदम् । रसे चाम्लं कपायं च पित्तकृत्कफवातहृत् ॥ ३७॥
(१७) यावनालः। यावनालोऽथ नदिजो दृढत्वग्वारिसंभवः । यावनालनिभश्चैव खरपत्रः षडाहयः ॥ ३८॥
गुणाः-यावनालशरमूलमीषन्मधुररुच्यकम् । शीतं पित्ततृषापघ्नं पशूनामबलप्रदम् ॥ ३९ ॥
(१८) बल्वजा । बल्वजा दृढपत्री च तृणेक्षुस्तृणवल्वजा । मौञ्जीपत्रा दृढतृणा पानीयाश्चा दृढक्षुरा ॥ ४०॥
गुणाः—बल्वजा मधुरा शीता पित्तदाहतृषापहा । वातप्रकोपनी रुच्या कण्ठशुद्धिकरी परा ॥४१॥
(१९) भूतृणम् । भूतृणं रोहिणो भूतिभूतिकोऽथ कुटुम्बकः । मालातृणं सुमाली च च्छत्रोऽ. तिच्छत्रकस्तथा ॥ ४२ ॥ गुह्यबीजः सुगन्धश्च गुंलालः पुंस्त्वविग्रहः । बधिरश्वातिगन्धश्च शृङ्गरोहः शरेन्दुकः ॥ ४२ ॥
गुणाः-भूतृणं कटुतिक्तं च वातसंतापनाशनम् । हन्ति भूतग्रहावेशाविषदोषांश्च दारुणान् ॥ ४३ ॥
(२०) सुगन्धतृणम् । सुगन्धभूव्रणश्चान्यः सुरसः सुरभिस्तथा । गन्धतृणः सुगन्धश्च मुखवासः षडाद्वयः॥४४॥
गुणाः—गन्धतृणं सुगन्धि स्यादीपत्तिक्तं रसायनम् । स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ ४५ ॥
(२१) उखलः ( उखलः) उखलो भूरिपत्रश्च सुतृणश्च तृणोत्तमः । गुणाः-उखलो बलदो रुच्यः पशूनां सर्वदा हितः॥ ४६ ॥ १ ज. गुच्छबूगरवि । २ ज. उस्वरो । झ. उषलो। ट. उखरो । ३ ज. उस्वरो । ट. उखरो।
For Private and Personal Use Only