________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ अष्टमो वर्गः ] राजनिघण्टुः।
३५९ गुणाः-कारी कषायमधुरा द्विविधा पित्तनाशनी । दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥ २७॥
(११) वाराहमदनः। वाराहोऽन्यः कृष्णवर्णो महापिण्डीतको महान् । स्निग्धपिण्डीतकश्चान्यः स्थूलवृक्षफलस्तथा ॥२८॥ ___ गुणाः-अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ । छर्दनौ कफहृद्रोगपकामाशयशोधनौ ॥ २९॥
(१२) बिल्वान्तरः। बिल्वान्तरश्चीरक्षः क्षुधाकुशलसंज्ञकः। दीर्घमूलो वीरवृक्षः कृच्छ्रारिश्च षडाहयः ॥ ३०॥
गुणाः-बिल्वान्तरः कटूष्णश्च कृच्छ्रघ्नः संधिशूलनुत् । वह्निदीप्तिकरः पथ्यो चातामयविनाशनः ॥३१॥
(१३) तरटी। तरटी तारटी तीव्रा बंधूरा रक्तबीजका । गुणाः-तरटी तिक्तमधुरा गुरुर्बल्या कफापहा ॥ ३२ ॥
(१४) श्रीवल्ली। श्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला। अम्ला कटुफलाऽश्वत्था दुरारोहा च साऽष्टधा ॥ ३३ ॥
गुणाः-श्रीवल्ली कटुकाऽम्ला च वातशोफकफापहा । तत्फलं तैललेपन्नमत्यम्लं रुचिकृत्परम् ॥ ३४ ॥
(१५) निकुनिका । अन्या निकुञ्जिकाऽम्लाख्या कुञ्जिका कुञ्जवल्लरी । निकुञ्जिका बुधैरुक्ता श्रीवल्लीसदृशी गुणैः ॥ ३५ ॥
(१६) * अपर्वदण्डः । अपर्वदण्डो दीर्घश्च रामवाणो नृपप्रियः । रामकाण्डो रामशरी रामस्येषुश्च सप्तधा ॥ ३६॥
* अपर्वदण्डो मालवदेशे प्रसिद्धः ।
१ झ. खर्बुरा।
For Private and Personal Use Only