________________
Shri Mahavir Jain Aradhana Kendra
३५८
www.kobatirth.org
परिशिष्ट---
( ५ ) पंक्काण्डः ।
Acharya Shri Kailassagarsuri Gyanmandir
[ शाल्मल्यादि:
पॅकाण्डः पञ्चकृत्पञ्चवर्धनः पञ्चरक्षकः ।
गुणाः -- हस्ताञ्जनविधौ शस्तः कटुजीर्णज्वरापहः ॥ १६ ॥ ( ६ ) इङ्गुदी ।
इङ्गुदी हिङ्गुपत्रश्च विपकण्टोऽनिलान्तकः । गौरस्तूक्तः सुपत्रश्च शूलारिस्ता - पद्रुमः ॥ १७ ॥ तीक्ष्णकण्टस्तैलफलः पूतिगन्धो विगन्धकः । ज्ञेयः क्रोष्टुफलश्चैव वह्नीन्दुगणिताइयः ॥ १८ ॥
गुणाः - इङ्गुदी मदगन्धी स्यात्कदुष्णा फेनिला लघुः । रसायनी हन्ति जन्तुवातामय कफवणान् ॥ १९ ॥
( ७ ) कन्थारी ।
कन्धारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका । तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रशाकाभिदा || २० ॥
गुणाः - कन्थारी कटुतिक्तोष्णा कफवातनिकृन्तनी । शोफनी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥ २१ ॥
( ८ ) घोण्टा !
घोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः । कर्कटी च तुरङ्गी च तुरगादाऽष्टधा स्मृता ।। २२ ।।
गुणाः-घोटिका कटुकोष्णा च मधुरा वातनाशनी । व्रणकण्डूतिकुष्ठाग्दो - पश्वयथुहारिणी ।। २३ ।
( ९ ) लताकरञ्जः ।
लताकरञ्जो दुःस्पर्शो वीरास्यो वज्रबीजकः । धनदाक्षः कण्टफल : कुबेराक्षश्च सप्तधा ।। २४ ॥
गुणाः – लताकरञ्जपत्रं तु कटूष्णं कफवातनुत् । तद्वीजं दीपनं पथ्यं शूलगुल्मव्यथापहम् ।। २५ ॥
For Private and Personal Use Only
(१०) कारी ।
कारी तु कारिका कार्या गिरिजा कटुपत्रिका । तत्रैका कण्टकारी स्यादन्या त्वाकर्षकारिका ।। २६ ।।
१ झ. पखौडः । २ झ. पखौडः । ३ ज. न्धोऽति ।