________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
< अष्टमो वर्गः] राजनिघण्टुः।
३५७ खादिरः स्मृतः ॥ १॥ शमीद्वयं च बर्बुरद्वितयमरिमेदकः । पैकाण्डेङ्गदिका प्रोक्ता निष्पत्री च स्नुही द्विधा ॥२॥ कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः । कारिका मदनस्त्रीणि बिल्वान्तरतरंटिका ॥३॥ श्रीवल्ली कुञ्जिका चैव रामकाण्डस्तथाऽपरः । सयावनालौ द्विशरौ मुञ्जकाशौ द्विधा कुशः ॥४॥ बल्वजा कत्तृणं चाथ नलौ दूर्वा चतुर्विधा । कुन्दुरो भूतृणं ज्ञेयो उखल इक्षुदर्भकः ॥५॥ गोमूत्रशिल्पिनीश्रेणीगर्मोटीमजरास्तथा । गिरिभूवंशपत्री च मन्थानः पल्लिवाहकः ॥ ६ ॥ ज्ञेये पटुतृणशूके त्रिपण्यन्धा त्रिगुण्डकः । कसेरुश्चणिका प्रोक्ता गुण्डाला शूलिका तथा ॥ ७ ॥ परिपेलं हिज्जुलं च सेवालं च शराङ्कधा।
(१) एकवीरः। __एकवीरो महावीरः सकृद्वीरः सुवीरकः । एकादिवीरपर्यायैर्वीरश्चेति षडाहयः॥८॥
गुणाः-एकवीरो भवेच्चोष्णः कटुकस्तोदवातनुत् । गृध्रसिकटिपृष्ठादिशूलपक्षाभिघातनुत् ॥ ९॥
(२) पारिभद्रः। अथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः । रक्तकुसुमः कृमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥ १० ॥
गुणाः—पारिभद्रः कटूष्णः स्यात्कफवातनिकृन्तनः । अरोचकहरः पथ्यो दीपनश्चापि कीर्तितः ॥ ११ ॥
___ (३) बर्बुरः। बर्बुरो युगलाक्षश्च कण्टालुस्तीक्ष्णकण्टकः । गोशृङ्गः पङ्क्तिबीजश्व दीर्घकण्टः कफान्तकः ॥ १२ ॥ दृढबीजः श्वासमक्षो ज्ञेयश्चेति दशाहयः। ___ गुणाः-बर्बुरस्तु कषायोष्णः कफकासामयापहः । आमरक्तातिसारघ्नः पित्तदाहार्तिनाशनः ॥ १३ ॥
(४) जालबर्बुरः। जालबर्वरकस्त्वन्यश्छत्राकः स्थूलकण्टकः । सूक्ष्मशाखस्तनुच्छायो रन्ध्रकण्टः षडावयः ॥ १४ ॥ ___गुणाः-जालबबुरको रूक्षो वातामयविनाशकृत् । पित्तकृच्च कषायोष्णः कफहृद्दाहकारकः॥ १५ ॥
१ झ, पखौण्डे । २ झ. रहिका । ३ झ, उसल । ट. उशल ।
For Private and Personal Use Only