SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ परिशिष्टो [ शाल्मल्यादिः(५०) निष्पावी। निष्पावी ग्रामजादिः स्यात्फलिनी नखपूर्विका । मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा ॥१९॥ विशालफलिका चैव निष्पाविश्चिपिटा तथा । अन्याऽङ्गुलीफला चैव नखनिष्पाविका स्मृता ॥१००॥ वृत्तनिष्पाविका ग्राम्या नखगुच्छफला शराः। गुणाः-निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ सरौ ॥१०१॥ कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारको । संग्राहिसमवीर्यः स्यादीपच्छ्रेष्ठो द्वितीयका ॥ १०२॥ (५१) शशाण्डुली। शशाण्डुली बहुफला तण्डुली क्षेत्रसंभवा । क्षुद्राऽम्ला लोमशफला धूम्रवृत्तफला च सा ॥ १०३ ॥ गुणाः-शशाण्डुली तिक्तकदुश्च कोमला कटुम्लयुक्ता जरठा कफावहा । पाके तु साम्ला मधुरा विदाहकृत्कफश्च शुष्कारुचिकृच्च दीपनी ॥ १०४ ॥ इति मूलकन्दफलपत्रसुन्दरक्रमनामतद्गुणनिरूपणोल्बणम् । अवलोक्य वर्गमिममामयोचितामगदप्रयुक्तिमवबुध्यतां बुधः ॥ १०५ ॥ मन्दाग्निमरोचकिनं येऽपि शिलामाशयन्ति निजशक्त्या । तेषां शाकानामयमाश्रयभूः शाकवर्ग इति कथितः ॥ १०६ ॥ लब्धान्योन्यसहायवैद्यककलाशङ्काकलङ्कापनुदौक्यावतरोऽयमित्यविरतं सन्तः प्रशंसन्ति यम् । तस्य श्रीनृहरेः कृताववसितो यो मूलकादिमहान्वर्गोऽसावभिधानकोशपरिषचूडामणौ सप्तमः ॥ १०७ ॥ इति वैद्यराजमुकुटमण्डलीमाणिक्यमणिमण्डनश्रीमदीश्वरपण्डितात्मजरजनरिमण खण्डचूडामणिचरणाम्बुजन्मनिर्मलमोदास्वादसंमदप्रमुदितचित्तचञ्चरीकश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायप्रधानश्रीनरहरिपण्डितविरचिते निघण्टुराजापरनाम्न्यभिधानचूडामणौ शाकवर्गापरपर्यायनाम मूलादिवर्गः सप्तमः ॥ ७ ॥ अथ शाल्मल्यादिरष्टमो वर्गः शाल्मली तस्य निर्यासो रोहितश्चैकवीरकः । पारिभद्रोऽब्धिखदिरः खदिरः १ ज. पाह्यसौं । २ झ. 'द्रोऽथ खदिरः काम्भोजी खा । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy