________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७ सप्तमो वर्गः ]
राजनिघण्टुः ।
३५५
चाम्ला रूक्षा रुच्याऽनिलापहा । पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा
11 66 11
Acharya Shri Kailassagarsuri Gyanmandir
(४४) जीवन्तः । ( जीवशाकं मालवे प्रसिद्धम् )
जीवन्तो रक्तनालश्च ताम्रपत्रः सनालकः । शाकवीरस्तु मधुरो जीवशाकश्च मेषकः ॥ ८९ ॥
गुणाः - जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः । दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ ९० ॥
(४५) गौरसुवर्णम् । ( गौरसुवर्णशाकं चित्रकूटदेशे प्रसिद्धम् ) गौरसुवर्ण स्वर्ण सुगन्धिकं भूमिजं च वारिजं च । ह्रस्वं च गन्धशाकं कटु शृङ्गाटं च वर्णशाकाङ्कः ॥ ९१ ॥
गुणाः -- गौरसुवर्णं शिशिरं कफपित्तज्वरापहम् । पथ्यं दाहरुचि भ्रान्तिरक्तश्रमहरं परम् ॥ ९२ ॥
( ४६ ) वर्षाभूः ।
गुणाः - वर्षा भूवसुकौ वर्णकफमान्द्यानिलापहौ । शाके रूक्षतरौ गुल्मप्लीदृशूलापहारकौ ।। ९३ ।।
(४७) फञ्जिका ।
फञ्जिका जीवनी पैद्मा तर्कारी चुचुकः पृथक् ।
गुणाः - वातामयहरं ग्राहि दीपनं रुचिदायकम् ।। ९४ ।
( ४८ ) फञ्जादिशाकम् ।
फञ्जादिपञ्चकं भेडा कुणजस्त्रिपुटस्तथा । इत्यादिनवपत्राणां शाकमेकत्र योजितम् ॥ ९५ ॥
गुणाः - दीपनं पाचनं रुच्यं बलवर्णविधायकम् । त्रिदोषशमनं पथ्यं ग्राहि हृष्यं सुखावहम् ।। ९६ ॥
( ४९ ) असिशिम्बी |
असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका | स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ।। ९७ ।।
गुणाः - असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् । व्रणदोषापहत्री च शीतला रुचिदीपनी ॥ ९८ ॥
१ ज. मोचकः । ८. भोषकः । २ ज. पध्या ।
For Private and Personal Use Only