________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[ मूलकादिःगुणाः---मूलपोती त्रिदोषनी वृष्या बल्या लघुश्च सा। बलपुष्टिकरी रुच्या जठरानलदीपनी ॥ ७९ ॥
(३६) कुचरः। __गुणाः-कुणञ्जरखिदोपनो मधुरो रुच्यदीपकः । ईषत्कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ ८०॥
(३७) कौसुम्भशाकम् । गुणाः-कौसुम्भशाकं मधुरं कटूष्णं विमूत्रदोषापहरं मदनम् । दृष्टिप्रसाद कुरुते विशेषाद्रुचिपदं दीप्तिकरं च वह्नः ॥ ८१ ॥
___ (३८) शतपुष्पादलम् । गुणाः-शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् । वातघ्नं दीपनं पथ्यं पित्तकृद्रुचिदायकम् ॥ ८२॥
(३९) तण्डुलीयदलम्। गुणाः-तण्डुलीयकदलं हिममर्शःपित्तरक्तविषकासविनाशि । ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ।। ८३ ॥
(४०) राजिकापत्रम् । गुणाः-कटूष्णं राजिकापत्रं कृमिवातकफापहम् । कण्ठामयहरं स्वादु वह्निदीपनकारकम् ॥ ८४ ॥
(४१) सार्षपपत्रम् । ___ गुणाः-सार्पपं पत्रमत्युष्णं रक्तपित्तप्रकोपेनुत् । विदाहि कटुकं स्वादु शुक्रगुचिदायकम् ॥ ८५ ॥
(४२) चाङ्गेरीशाकम्। गुणाः-चाङ्गेरीशाकमत्युष्णं कटु रोचनपाचनम् । दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥ ८६ ॥
(४३) घोली। घोला च घोलिका घोली कलन्दुः कवलालुकम् । गुणाः-क्षेत्र लवणं रुच्यमम्लं वातकफापहम् ॥ ८७॥ आरामघोलिका
१ज. विषघ्नं रुचि।२ट, पनम् । वि।
For Private and Personal Use Only