________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सप्तमो वर्गः ] राजनिघण्टुः।
पलाशलोहिता ( चिल्ली) पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा । मृदुपत्री शारदला चीरपत्री तु वास्तुकी ॥ ६६ ॥
गुणाः-चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् । प्रमेहमूत्रकृच्छ्रनी पथ्या च रुचिकारिणी ॥६७॥ श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका । सितचिल्युपचिल्ली च ज्वरनी क्षुद्रवास्तुकी ॥ ६८ ॥ __गुणाः-श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा । त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥ ६९ ।। अन्या शुनकचिल्ली स्यात्सुचिल्ली श्वानचिल्लिका । गुणाः-श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥ ७० ॥
(३१) शिग्रुपत्रजम् । गुणाः-शिग्रुपत्रभवं शाकं रुच्यं वातकफापहम् । कटूष्णं दीपनं पथ्यं कृमिघ्नं पाचनं परम् ॥ ७१ ॥
(३२) पालक्यम् । पालक्यं तु पलक्यायां मधुरा क्षुरपत्रिका । सुपत्रा स्निग्धपत्रा च ग्रामीणा ग्राम्यवल्लभा ।। ७२॥
गुणाः-पालक्यमीपत्कटुकं मधुरं पथ्यशीतलम् । रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परम् ॥ ७३ ॥
(३३) उपोदकी।। उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा । मोहिनी मदशाकश्च विशालाद्या ह्युपोदकी ॥ ७४ ॥
गुणाः-उपोदकी कषायोष्णा कटुका मधुरा च सा । निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥ ७५ ॥
(३४) क्षुद्रोपोदकी। उपोदकी परा क्षुद्रा सूक्ष्मपत्रा तु मण्डपी । रसवीर्यविपाकेषु सदृशी पूर्वया स्वयम् ॥ ७६ ॥ उपोदकी तृतीया च वनजा वनजाह्वया । वनजोपोदकी तिक्ता कटप्णा रोचनी च सा ॥ ७७ ॥
(३५) मूलपोती। मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका । क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥ ७८॥
१ ज. वल्लिया।
For Private and Personal Use Only