________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो
[ मूलकादि:(२४) लक्ष्मणा। लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा । नागाहा नागपत्नी च तुलिनी मक्षिका च सा ॥ ५५ ॥ अस्रबिन्दुच्छदा चैवे सुकन्दा दशधाहया ।
गुणाः-लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी । रसायनकरी बल्या त्रिदोषशमनी परा ॥ ५६ ॥
(२५) करजोडिकन्दः । हस्तपर्यायपूर्वस्तु जोडिवैद्यवरैः स्मृतः । करजोडिरिति ख्यातो रसबन्धादिवश्यकृत् ॥ ५७॥
(२६) मुसलीकन्दः । मुसली तालमूली च सुवहा तालमूलिका । गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥५८॥
गुणाः-मुसली मधुरा शीता Bष्या पुष्टिवलपदा । पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥ ५९ ॥ मुसली स्याविधा प्रोक्ता श्वेता चापरसंज्ञका । गुणाः---श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥६०॥
(२७) गुच्छाहकन्दः। गुच्छाहकन्दस्तबकाढकन्दको गुलुच्छकन्दश्च विघण्टिकाभिधः। गुणाः-गुलुच्छकन्दो मधुरः सुशीतलो वृष्यपदस्तर्पणदाहनाशनः ॥६१॥
(२८) वास्तुकम् । वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका । शाकराजो राजशाकश्चक्रवर्ती च कीर्तितः ॥ ६२॥
गुणाः-वास्तुकं तु मधुरं सुशीतलं क्षारमीषदमलं त्रिदोषजित् । रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥ ६३ ॥
(२९) चुक्रम् । चुकं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकम् । दलाम्लमम्लशाकाख्यमम्लादिहिलमोचिका ॥ ६४॥
गुणाः--चुकं स्यादम्लपत्रं तु लघूष्णं वातगुल्मनुत् । रुचिकृद्दीपनं पथ्यमीपत्पित्तकरं परम् ॥६५॥
१ ज. मजिका । २ ज. ट. व पुंस्कन्दा च दशाह। ३ ज. रस्या ।
For Private and Personal Use Only