________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ सप्तमो वर्गः ] राजनिघण्टुः।
गुणाः-मधुरो धरणीकन्दः कफपित्तामयापहः । वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥ ४३॥
(१९) मालाकन्दः। अथ मालाकन्दः स्यादालिकन्दश्च पङ्क्तिकन्दश्च । त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता पोढा ॥ ४४॥
गुणाः—मालाकन्दः सुतीक्ष्णः स्याद्गण्डमालाविनाशकः । दीपनो गुल्महारी च वातश्लेष्मापकर्षकृत् ॥ ४५ ॥
(२०) शाल्मलीकन्दः। शाल्मलीकन्दकश्चाथ विजुलो वनवासकः । वनवासी मलनश्च मलहन्ता षडाह्वयः॥ ४६॥
गुणाः-मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् । शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥४७॥
(२१) चण्डालकन्दः। प्रोक्तश्चण्डालकन्दः स्यादेकपत्रो द्विपत्रकः । त्रिपत्रोऽथ चतुष्पत्रः पञ्चपत्रश्च भेदतः ॥४८॥
गुणाः-चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् । विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः ॥ १९॥
(२२ ) तैलकन्दः। अथ तैलकन्द उक्तो द्रावककन्दस्तिलाशितदलश्च । करवीरकन्दसंज्ञो ज्ञेयस्तिलचित्रपत्रको बाणैः ॥ ५० ॥
गुणाः-लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः । शोफन्नः स्याद्वन्धकारी रसस्य द्रागेवासौ देहसिद्धिं विधत्ते ॥५१॥
(२३) तिलकन्दः । अश्वारिपत्रसंकाशस्तिलबिन्दुसमन्वितः । संस्निग्धाधस्थभूमिश्च तिलकन्दोऽतिविस्तृतः ॥ ५२ ॥ त्रिपर्णिका बृहत्पत्री छिन्नग्रन्थी निका च सा । कन्दालः कन्दबहलाऽप्यम्लवल्ली विषापहा ॥ ५३॥
गुणाः-त्रिपर्णी मधुरा शीता श्वासकासविनाशनी । पित्तप्रकोपशमनी विषत्रणहरा परा ॥ ५४॥
१ ज. शोकसं। २ ज. 'हशुद्धिं ।
For Private and Personal Use Only