________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८ परिशिष्टो
[ मूलकादि:तकी तथा । पटोलीमधुराया च मृगाक्षी दधिपुष्पिका ॥१०॥ शिम्बी च कारवल्ली च कर्कोटीस्वादुतुम्बिका । निष्पावीद्वयवार्ताकी डङ्गरी खर्बुजा तथा। कर्कटीत्रपुस्यैर्वारु वालुका चीनकर्कटी ॥ ११ ॥ चिभिटा च शशाण्डूली कुडुहुश्ची मुनीक्षणैः । वेदभेदाः क्रमान्मूलकन्दपत्रफलात्मकाः ॥ १२ ॥ शाकवर्गेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः । एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ १३ ॥
(१) वेत्रः। वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः । गुणाः—वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ १४ ॥
(२) माकन्दी। माकन्दी बहुमूला च मादनी गन्धमूलिका । एका विशदमूली च श्यामला च तथाऽपरा ॥ १५ ॥
गुणाः—माकन्दी कटुका तिक्ता मधुरा दीपनी परा । रुच्याऽल्पवातुला पथ्या न वर्षासु हिताधिका ॥ १६ ॥
(३) शोली ( शोलिका) शोली वनहरिद्रा स्याद्वन्यारिष्टा च शोलिका। गुणाः-शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ १७ ॥
(४) शृङ्गाटकः। शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया । शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥ १८ ॥
गुणाः-शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् । त्रिदोपतापश्रमदोषहारी रुचिप्रदो मोहनदायहेतुः ॥ १९ ॥
(५) भृङ्गाह्वा । भृङ्गाहा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका । गुणाः-भृङ्गच्छल्ली कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥ २० ॥
(६) पेऊ पेऊ वनाईका प्रोक्ता वनजाऽरण्यजाऽऽका। गुणाः-पेऊ तु कटुकाऽम्ला च रुचिकृद्धल्यदीपनः (नी) ॥ २१ ॥
१ झ. 'मशोफहा।
For Private and Personal Use Only