________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७ सप्तमो वर्गः] राजनिघण्टुः ।
___३४७ गुणाः-मायाफलं वातहरं कसृष्णकं शैथिल्यसंकोचककेशकाष्य॒दम् ॥२२॥
इत्थं नानाद्रव्यसंभारनामग्रामव्याख्यातद्गुणाख्यानपूर्वम् । वर्ग वीर्यध्वस्तरोगोपसर्ग बुद्ध्वा वैद्यो विश्ववन्द्यत्वमीयात् ॥२३ ।। साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात्स्वौजःपात्रविचारणाय विपणेमध्यं समभ्यासते । तेषामाश्रयभूमिरेष भणितः पण्यौषधानां बुधैर्वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥ २४ ॥ यः सौम्येन सदाशयेन कलयन्दिव्यागमानां जनैदुहिं महिमानमाशु नुदते स्वं जग्मुषां दुर्गतीः । वर्गः पिप्पलिकादिरेष नृहरेस्तस्येह शस्यात्मनो नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठामगात् ॥ २५ ॥
इति वैद्यराजमण्डलीमौलिमाणिक्यमण्डनश्रीमदीश्वरपण्डिततनुजात्ययनीरमणचरणारविन्दासौख्यलालसराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायप्रतिष्ठागरिष्ठश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायवत्यभिधानचूडामणौ पण्यवर्गापरनामा पिप्पल्यादिः षष्ठो वर्गः ॥ ६ ॥
अथ मूलकादिः सप्तमो वर्गः
मूलकं पञ्चधा प्रोक्तं चतुर्धा शिगुरुच्यते । वंशो द्वित्रो माकन्दी हरिद्रा वनजा तथा ॥ १ ॥ शृङ्गाटो भ्रमरच्छल्ली वन्याकमथापरम् । रसोनो द्विविधः प्रोक्तः पलाण्डुश्च द्विधा मतः ॥२॥ विंशत्येकोत्तरं मूलं सूरणद्वंद्वमुच्यते । आलुकसप्तकं चाथ प्रोक्ताश्चारण्यकन्दकाः ॥ ३ ॥ महिषी हस्तिकोलौ च वाराही विष्णुधारणी। द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥ ४॥ चण्डालस्तैलकन्दश्च त्रिपर्णी पुष्करस्तथा । मुसली द्विविधा चाथ क्षुद्रगुच्छस्तथैव च ॥५॥ एषु नागकराहा च पत्रशाकमथोच्यते । वास्तुकं चुलकं चिल्ली त्रिविधं शिग्रुपत्रकम् ॥६॥ पालक्यराजशाकिन्यौ चतु|पोदकी क्रमात् । कुणञ्जरः कुसुम्भाख्यः शताहा पत्रतण्डुली ॥ ७ ॥ राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता। जीवशाकस्तथा गौरसुवर्णाख्यः पुनर्नवा ॥ ८ ॥ वसुकः फञ्जिकादिश्च मिश्रकोऽङ्ककरावयः । अतः परं च कूष्माण्डी कुम्भतुम्बी अलाबुका ॥ ९॥ भूतुम्बिका कलिङ्गश्च द्विधा कोशा
१ ज़, के वराङ्गसंकोचनके।
For Private and Personal Use Only