________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टो- [पिप्पल्यादिः षष्ठो वर्गः ]
(२) अलक्तकः। __ अलक्तको जन्तुरसो रागो निर्भर्त्सनस्तथा । जननी जन्तुकारी च संघर्षा चेक्रमर्दिनी ॥ १२ ॥
गुणाः-अलक्तकः मुतिक्तोष्णः कफवातामयापहः । कण्ठरुक्शमनो रुच्यो वणदोषार्तिनाशनः ॥ १३ ॥
(३) समुद्रफलम् । समुद्रनामप्रथमं पश्चात्फलमुदाहरेत् । समुद्रफलमित्यादि नाम वाच्यं भिषग्वरैः ॥ १४ ॥
गुणाः-फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि । त्रिदोषदावानलदोपहारि कफामयभ्रान्तिविरोधकारि ॥ १५ ॥
(४) साकुरुण्डः । साकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः । कुरुण्डः कर्बुरफलः सकुरुण्डश्च सप्तधा ॥ १६ ॥
गुणाः-साकुरुण्डः कषायश्च रुचिकृद्दीपनः परः । श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥१६॥
(५) हिमावली। हिमावली च हृद्धात्री कुष्ठन्नो रङ्गकुष्ठकः । अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो वसुसंज्ञकः ॥ १८ ॥
गुणाः-हिमावली सँरा तिक्ता प्लीहगुल्मोदरापहा । कृमिकुष्ठगुदात्युग्रखमॅकण्डूतिहारिणी ॥ १९॥
(६) हस्तिमदः। हस्तिमदो गजमदो गजदानं मदस्तथा । कुम्भिमदो दन्तिमदो दानं द्वीपिमदोऽष्टधा ॥२०॥
गुणाः-स्निग्धो हस्तिमदस्तिक्तः केश्योऽपस्मारनाशनः । विषहृत्कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥ २१ ॥
(७) मायाफलम् । मायाफलं मायिफलं च मायिका छिद्राफलं मायि च पश्चनामकम् ।
१ ज. ट. संघर्षा । २ ज. ट. चक्रवर्तिनी। ३ झ. गारकुठकः । ४ ज. रसे ।
For Private and Personal Use Only