________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ६ षष्ठो वर्गः] राजनिघण्टुः।
३४५ मुखमण्डनमेनमुच्चैरुच्चाटनाय च रुजां प्रभुरस्तु वैद्यः॥५५॥क्षुध रान्ति जनस्योच्चैस्तस्मात्क्षुद्राः प्रकीर्तिताः। तेषां क्षुपाणां वर्गोऽयं रा दाने धातुरुच्यते ॥५६॥ धत्ते नित्यसमाधिसंस्तववशपीतार्पितेशार्पिता स्वात्मीयामृतहस्ततां किल सदा यः सर्वसंजीवनीम् । वर्गस्तस्य कृतौ नृसिंहकृतिनो यः पर्पटादिमहानेष प्राश्चति नामकाण्डपरिषचूडामणौ पञ्चमः ॥५७॥ इति वैद्यकमुकुटमाणिक्यालंकरणश्रीमदीश्वरसूरिसूनुश्रीकण्ठ चरणारविन्दसेवकराजहंसकाश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापरपर्यायनामधेयवत्यभिधानचूडामणौ पर्पटादिः
क्षुद्रक्षुपवर्गः पञ्चमः ॥५॥
अथ पिप्पल्यादिः षष्ठो वर्गः
चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा । आर्द्रकं मरिचद्वंद्व धान्यक च यवानिका ॥ १ ॥ चव्यं च चित्रकद्वंद्वं विडङ्गं च वचाद्वयम् । कुलञ्जो जीरकाः पञ्च मेथिका हिङ्गपत्रिका ॥२॥ हिङ्गद्वयं चाग्निजारो रास्ने एलाद्वयं शिवम् । सौवर्चलं च काचाहँ बिडं च गडनामकम् ॥३॥ सामुद्रं द्रौणिकं चान्यदौषरं रोमकं तथा । नवधा लवणं प्रोक्तमजमोदा च रेणुका ॥ ४ ॥ बोलं कर्चुरकः पाठा वृक्षाम्लश्चाम्लवेतसम् । कटुकाऽतिविषा मुस्ताद्वयं यष्टी मधुद्वयम् ॥ ५ ॥ भार्गी पुष्करमूलं च शृङ्गयथो दन्तिकाद्वयम् । जेपालश्च त्रिवृद्वेधा त्वक्पत्रं नागकेसरम् ॥ ६ ॥ तवक्षीरं च तालीसपत्राख्यं वंशरोचना । मञ्जिष्ठा च चतुर्धा स्यादरिद्रे च द्विधा मते ॥ ७॥ लाक्षा चालक्तको लोध्रो धातक्यब्धिफलं तथा । निर्विषाऽथ विषद्वंद्वं द्विधा चाम्लहरिद्रका ॥८॥ अब्धिफेनमफेनं च टङ्कणौ साकुरुण्डकम् । हिमावली हस्तिमदः स्वर्जिको लोणकस्तथा ॥९॥ वज्रको यवजश्चाथ सर्वक्षारोऽथ मायिका । औषधान्यभिधीयन्ते षडङ्गमितसंख्यया ॥ १० ॥
(१) कुलनः। कुलञ्जो गन्धमूलश्च तीक्ष्णमूलः कुलञ्जनः । गुणाः-कुलजः कटुतिक्तोष्णो दीपनो मुखदोपनुत् ॥११॥
१ ज. लोणिका तथा । २ झ. `णकं तथा ।
For Private and Personal Use Only