SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४९ ७ सप्तमो वर्गः ] राजनिघण्टुः। (७) मुखालुः। मुखालुर्मण्डपारोहो दीर्घकन्दः सुकन्दकः । स्थूलकन्दो महाकन्दः स्वादुकन्दश्च सप्तधा ॥ २२॥ गुणाः-मुखालुकः स्यान्मधुरः शिशिरः पित्तनाशनः । रुचिकृद्वातकृञ्चैव दाहशोषतृषापहः ॥ २३ ॥ (८) कन्दग्रन्थी। पिण्डालुः स्याद्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः। रोमालु: स्यात्सोऽपि ताम्बूलपत्रो नानाकन्दः पिण्डकोऽयं दशाहः ॥ २४ ॥ गुणाः-पिण्डालुमधुरः शीतो मूत्रकृच्छ्रामयापहः । दाहशोषप्रमेहनो वृष्यः संतर्पणो गुरुः ॥ २५ ॥ (९) रक्तपिण्डालुः। अन्यस्तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः । लोहितो रक्तकन्दश्च लोहितालुः षडाह्वयः ॥ २६ ॥ गुणाः-रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः । पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥ २७ ॥ (१०) कासालुः। कासालुः कासकन्दश्च कन्दालुश्वाऽऽलुकश्च सः। आलुर्विशालपत्रश्च पत्रा. लुश्चेति सप्तधा ॥ २८॥ गुणाः-कासालुरुग्रकण्डूतिविषश्लेष्मामयापहः । अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥ २९ ॥ (११) फोण्डालुः। फोण्डालुलॊहितालुश्च रक्तपत्रो मृदुच्छदः। गुणाः-फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनीयकः ॥ ३० ॥ (१२) पानीयालुः। पानीयालुर्जलालुः स्यादनूपालुरवालुकः । गुणाः-पानीयालुस्त्रिदोषघ्नः संतर्पणकरः परः ॥ ३१॥ १ ज. दृशः । २ ज. तिवातले । ३ ८. फोडालु । ४ ट. फोडालुः । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy