________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५ पञ्चमो वर्गः ]
राजनिघण्टुः ।
३४३
गुणाः - दुग्धफेनी कटुस्तिक्ता शिशिरा विषनाशिनी । व्रणापसारिणी रुच्या युक्त्या चैव रसायनी ॥ ३५ ॥
(१४) काथरा ।
Acharya Shri Kailassagarsuri Gyanmandir
कीथरा हयपर्यायैः काथरान्तैः प्रकीर्तिता ।
गुणाः -- अश्वकोथरिका तिक्ता वातघ्नी दीपनी परा ॥ ३६ ॥ (१५) वसुकः ।
वसुकोऽथ वसुः शैवो वसोऽथ शिवमल्लिका । पाशुपतः शिवमतः सुरेष्टः शिवशेखरः ॥ ३७ ॥ सितो रक्तो द्विधा प्रोक्तो ज्ञेयः स च नवाभिधः । गुणाः सुकौ कटुतिक्तोष्णौ पाके शीतौ च दीपनौ । अजीर्णवातगुल्मघ्नौ श्वेतश्चैव रसायनः || ३८ ॥
( १६ ) सर्पिणी । सर्पिणी भुजगी भोगी कुण्डली पन्नगी फणी ।
गुणाः --- पडभिधा सर्पिणी स्याद्विषघ्नी कुचवर्धिनी ॥ ३९ ॥ ( १७ ) वृश्चिका ।
वृश्चिका नखपणीं च पिच्छिलाऽप्यलिपत्रिका |
गुणाः वृश्चिका पिच्छलाऽम्ला स्यादत्रवृद्ध्यादिदोषनुत् ॥ ४० ॥ (१८) ब्राह्मी ( द्वितीयब्राह्मी )
ब्रह्म वयस्था मत्स्याक्षी मीनाक्षी सोमवल्लरी |
गुणाः -- मत्स्याक्षी शिशिरा रुच्या व्रणदोषैक्षयापहा ॥ ४१ ॥ (१९) गुण्डाला ।
गुण्डाला तु जलोद्भूता गुच्छबुना जलाशया ।
गुणाः -- गुण्डाला कटुतिक्तोष्णा शोफत्रणविनाशिनी ॥ ४२ ॥ (२०) भूपाटली ।
भूपाली च कुम्भी च भूताली रक्तपुष्पिका ।
गुणाः - भूपाटली कटूष्णा च पारदे सुप्रयोजिका ॥ ४३॥ (२१) पाटली ।
पाटली पाण्डुरफली धूसरा वृत्तवीजका । भूरिफली तथा पाण्डुफली सप्तायाभिधा ॥ ४४ ॥
१ ज. कासरा । २ ज. कासरि । ३ ज. पकफाप । ४ जलाश्रया । ५८. ली तु भकुम्भी भू ।
For Private and Personal Use Only