________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ पञ्चमो वर्गः ]
राजनिघण्टुसहितः ।
३४१
गुणाः -- गृहकन्या हिमा तिक्ता मदगन्धिः कफापहा । पित्तकासविषश्वासकुष्ठघ्नी च रसायनी ॥ १२ ॥
( ३ ) बर्हिचूडा ।
बर्हिचूडा तु शिखिनी शिखालुः सुशिखा शिखा । शिखावला के किशिखा मयूराद्यशिखाभिधा ॥ १३ ॥
गुणाः - हिडा रसे स्वादुर्मूत्रकृच्छ्रविनाशनी । वालग्रहादिदोषघ्नी वश्यकर्मणि शस्यते ॥ १४ ॥
( ४ ) रुदन्ती ।
स्याद्वदन्ती स्रवत्तोया संजीवन्यमृतस्रवा । रोमाञ्चिका महामांसी चणपत्री सुधास्रवा ॥ १५ ॥
गुणाः — रुदन्ती कटुतिक्तोष्णा क्षयकृमिविनाशिनी । रक्तपित्तकफश्वासमेहहारिरसायनी ।। १६ ।। चणपत्रसमं पत्रं क्षुपं चैव तथाऽम्लकम् । शिशिरे जलविन्दूनां स्रवन्तीति रुदन्तिका ।। १७ ।।
( ५ ) कुलत्था ।
कुलत्था दृक्प्रसादा च ज्ञेयाऽरण्यकुलत्थिका । कुलाली लोचनहिता चक्षुष्या कुम्भकारिका ॥ १८ ॥
गुणाः – कुलत्थिका कटुस्तिक्ता स्यादर्शःशूलनाशनी । विबन्धाध्मानशमनी चक्षुष्या व्रणरोपणी ॥ १९ ॥
( ६ ) हस्तिशुण्डी ।
हस्तिगुण्डी महागुण्डी गुण्डी धूसरपत्रिका | गुणाः- हस्तिशुण्डी कटूष्णा स्यात्संनिपातज्वरापहा ॥ २० ॥ ( ७ ) कुटुम्बिनी ।
कुटुम्बिनी पयस्या च क्षीरिणी जलकामुका । वैज्रशल्या दुराधर्षा क्रूरकर्मा झिरिण्टिका ॥ २१ ॥ शीता मैहरजाया च शीतला च जलेरुहा । विख्याता किल विद्वद्भिरेषा द्वादशनामभिः || २२ ॥
गुणाः कुटुम्बिनी तु मधुरा ग्राहिणी कफपित्तनुत् । व्रणास्रदोषकण्डूतिनाशनी सा रसायनी ॥ २३ ॥
१ ज ८. ष्णा कषाया कृमिना । २ झ. वक्रश । ३ ज ट प्रहरकुटुम्बी ।
For Private and Personal Use Only