________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४० परिशिष्टो
[पर्पटादि:तेजसा । धुन्वन्त्यौषधयः स्वयं किल गदान्येनार्पिता स्पर्धया तुर्यस्तस्य कृतौ स्थितो नरहरेर्वर्गः शताहादिकः ॥ ५७ ॥ इति वैद्यकमुकुटरत्नालंकरणश्रीमदीश्वरसूनुश्रीकण्ठचरणारविन्दसेवकराजहंसश्रीकाश्मीराद्यवंशाचार्यपरंपरान्ववायश्रीनरहरिपण्डितविरचिते निघण्टुराजापर
पर्यायनामधेयवत्यभिधानचूडामणौ शताहादिश्चतुर्थो वर्गः ॥ ४ ॥
अथ पर्पटादिः पञ्चमो वर्गः।
पर्पटो जीवकश्चैवर्षभकः श्रावणी द्विधा । मेदाद्वयमृद्धिवृद्धी धूम्रपत्रा प्रसारिणी ॥ १॥ चतुष्पाषाणभेदः स्यात्कन्या बर्हिशिखा तथा । क्षीरिणीद्वितयं चैव त्रायमाणा रुदन्तिका ॥२॥ ब्राह्मी द्विधा च वन्दाकः कुलत्था तण्डुलीयकः। चिविल्ली नागशुण्डी च कुटुम्बी स्थलपद्मिनी ॥ ३ ॥ जम्बूश्व नागदन्ती च विष्णुकान्ता कुणञ्जरः । भूम्यामली च गोरक्षी गोलोमी दुग्धफेनिका ॥ ४ ॥ क्षुद्राम्लिका च लज्जाद्वौ हंसपादी च कोथरा । पुनर्नवात्रयं प्रोक्तं वसुको द्विविधः स्मृतः॥५॥ सर्पिणी चालिमत्स्याक्षी गुण्डालाऽवनिपाटली । स्यात्पाण्डुरफली श्वेता ब्रह्मदण्डी द्रवन्तिका ॥६॥ द्रोणपुष्पीद्वयं चैव झण्डूोरक्षदुग्धिका । नववाणमिताः क्षुद्रक्षुपाः प्रोक्ता यथाक्रमात् ॥ ७॥
(१) धूम्रपत्रा। धूम्रपत्रा तु धूम्राहा सुलभा तु स्वयंभुवा । गृध्रपत्रा च गृध्राणी कृमिन्नी स्त्रीमलापहा ॥८॥
गुणाः--धूम्रपत्रा रसे तिक्ता शोफनी कृमिनाशिनी । उष्णा कासहरा चैव रुच्या दीपनकारिणी ॥ ९ ॥
(२) गृहकन्या। गृहकन्या कुमारी च कन्यका दीर्घपत्रिका । स्थलेरुहा मृदुः कन्या बहुपत्राऽमराजरा ॥ १० ॥ कण्टकमाता वीरा भृङ्गेष्टा विपुलस्रवा । ब्रह्मनी तरुणी रामा कपिला चाम्बुधिस्रवा ॥ ११ ॥ सुकण्टका स्थूलदलेत्येकोना विंशतिर्मता।
१ज. कासरा।
For Private and Personal Use Only